________________
२६४
श्रीपार्थनाथचरिते
समं विश्वत्रयप्रीत्या वर्धमानः शनैः प्रभुः। सुसंहननसंस्थानोऽपि बाल्यमुदलङ्घयत् ॥ १३० ॥ गम्भीर उन्नतः सूक्ष्मः सरलः पृथुलोसितः । अदीर्घस्त्रिषु त्रिष्येवं द्विशुभ्रो नवपाटलः ॥ १३१ ॥ नाभौ सत्वे स्वरेऽगाधस्तुङ्गोंऽश-पद-मूर्द्धसु । सूक्ष्मः केशे नखे दन्ते सरलोऽहौ भुजेऽङ्गुलौ ॥ १३२ ।। पृथुर्नाभिमुखोरस्सु तारा-वृन्त-कचेऽसितः । कण्ठे पृष्ठे च पुंश्चिद्धे तुच्छः शुभ्रो रदाऽक्षिषु ॥ १३३ ।। पाणी पादे गुदे तालु-जिह्वयोरधरोष्ठयोः । नखषु दन्त-मांस व ताम्रो नवसु शस्यते ॥ १३४ ॥ द्वात्रिंशल्लक्षणान्येवं दृश्यन्तेऽस्म तनाविति । मत्वैवं सुभगं वत्रुस्तं खयं सकलाः कलाः ॥ १३५ ॥ स्वाम्यथोऽनुपमाष्टाग्रसहस्रनरलक्षणः । नवहस्ततनुर्भूत्वाऽऽरुरोह नवयौवनम् ॥ १३६ ॥ सद्गन्धममलखेदमदमांसाऽमृगुज्ज्वलम् । अदृश्याहारनीहारविकृतत्वं वपुः प्रभोः ॥ १३७ ॥ सहजातिशयैरेवं जन्मैवाऽऽरभ्य सुन्दरम् । विशेषतरुणिम्ना तु शरदेवाऽम्बु मानसम् ॥ १३८ ।।
(युग्मम् ) पादयोः कमलैः कण्ठे शङ्खफैरिन्द्रगोपकैः। नखेषु, भ्रमरैः केशेष्वथ भेकैः पिकैर्गजैः ॥ १३९ ।। तुन्दे स्वरे गते श्रीः स्वा क्रमादेकेन्द्रियादिभिः । विभोर्दत्तेव सर्वैर्यत् वाम्यसौ सर्वजन्तुषु ॥ १४० ॥
(युग्मम् ) विभुः कूोपमौ पादौ मध्यं सिंहसहोदरम् । मुखं चन्द्रनिभं बिभ्रत् तदा त्रिभुवनायितः ॥ १४१ ॥