________________
अहम् । अथ षष्ठः सर्गः।
अथाऽश्वसेनभूपालस्तेजोविजयशालिनम् । पार्थ पार्श्वगतं दृष्ट्वा हर्षाङ्कच्छत्रतामगात् ॥ १॥ खसौधं च गते पार्चे प्रभावत्या सहागतम् । पुरो नमन्तमुत्थाप्य प्रसेनजितमब्रवीत् ॥ २ ॥ कचित् कुशस्थलाधीश ! सर्वत्र कुशलं तव । हेतोश्चात्रागमः कस्मात् सोऽप्येवमवदत् तदा १ ॥३॥ कुशलं मे सदा यस्य त्रातासि गुरुविक्रमः । हेतुश्चागमने तावद्दर्शनेच्छा तवाऽनघ ! ॥४॥ अन्यच्च मम पुत्रीयं भृशं पार्थानुरागिणी । प्रसद्य तद् गृहाणेमा कुमारार्थे प्रभावतीम् ॥ ५॥ अश्वसेनोऽवदद् भद्र ! साधूचेऽस्माकमप्यसौ । मनोरथः सदैवाऽस्ति कुमारोद्वाहगोचरः ॥ ६ ॥ विरक्तः किन्तु संसारादपि राज्यश्रियं चिरात् । मुमुक्षुरेषोत्रार्थे तन्न जाने किं करिष्यति ? ॥ ७ ॥ परं त्वदुपरोधेनाऽधुना पार्थ बलादपि । उद्वाहं कारयिष्यामि तन्मा त्वमधृतिं कृथाः ॥ ८॥ इत्युक्त्वा सह तेनैव ययौ पाान्तिक नृपः । इमां प्रसेनजित्पुत्रीमुद्बहेति जगाद च ॥९॥ श्रीपार्थोऽप्यवदत् तातो मयीदं वक्ति वत्सलात् । वस्तुनः किन्तु नित्यस्य ममेच्छा क्षणिकस्य न ॥१०॥ परिग्रहेणान्येनापि भवाब्धिः खलु दुस्तरः । परिग्रहेण तु स्त्रीणामियं वार्ताऽपि दूरतः ॥ ११ ॥ उन्मूलयितुमिच्छामि भवक्षस्य तस्य तत् ।