________________
२७५
षष्ठः सर्गः
रोपयामि कथं मूलं स्त्रीपरिग्रहलक्षणम् ॥ १२ ॥ १ घनवद्भारितो जीवो नीचैर्याति मलीमसः । यात्यूर्ध्वं प्रोज्ज्वलः सोऽपि मुक्ततोयपरिग्रहः ॥ १३ ॥ अश्वसेननृपोऽप्यूचे वत्सेदृग्मनसा त्वया ।. शीर्ण एव भवः किन्तु पूरयाऽस्मन्मनोरथम् ॥ १४ ॥ भूत्वा कलत्रिणः प्राक् किं जिनाः सिद्धा न तद्भवे १ । उदृढस्तत् त्वमप्येवं समये स्वार्थमाचरेः ।। १५ ।। मत्वा तातमनुल्लङ्घ्यं भोगकर्मात्मनश्च तत् । वचो मेने विभुर्येन प्रभवो न जडग्रहाः ॥ १६ ॥ द्वाभ्यामप्यथ भूषाभ्यां चक्रे वर्धापनं महत् । पूर्वापरपयोदाभ्यामिवागार्ज जगन्मुदे ॥ १७ ॥ दानं च घोषणापूर्व दापितं सर्वतोमुखम् । निर्णीतं गणैकैर्लग्नं सर्वग्रहमनोहरम् ॥ १८ ॥ लसच्चन्द्रोदयं मुक्तातारं स्तम्भोर्ध्वदिग्गजम् । स्वर्ण रौप्यप्रभाविद्युद् धूपधूम्याऽभ्रडम्बरम् ॥ १९ ॥ व्योमेव विपुलं हर्षान्निजावासभुवोऽङ्गणे । विवाहमण्डपं सद्यः प्रसेनजिदकारयत् ॥ २० ॥ ( युग्मम् )
विवाहदिवसे प्राप्ते सुमुहूर्ते प्रभावती । रङ्गावली चतुष्कान्तसिन्धां दिव्यवाससि ।। २१ ॥ न्यवेशि पूर्वाभिमुखी मणिपट्टा हितक्रमा | कारितं नखकर्माऽस्याः प्रत्रक्षणपुरस्सरम् || २२ || ( युग्मम् )
रक्तांशुकपरीधाना विकखरमुखाम्बुजा । प्राची दिगिव साsराजदासन्नार्कसमागमा ॥ २३ ॥ चन्दनाक्षतदूर्वाद्यहस्ताभिर्मङ्गलारवैः ।
१ भारवान् । २ विवाहितः । ३. ज्योतिर्विद्भिः । ४ आसन्दी आसनम् ।