________________
पञ्चमः सर्गः।
२७३ अथ पार्थोऽवदद् राजस्ताताज्ञा मे तवाऽवने । न कन्योद्वहने तस्मान्मा कार्षीराग्रहं वृथा ॥ २४६ ॥ तच्च प्रभावती श्रुत्वा दध्यौ दीना विषादतः । अधुनाऽहं भविष्यामि मन्दभाग्या हहा ! कथम् ? ॥२४७॥ सर्वत्र सदयोऽप्येष कुतोऽभून्मयि निघृणः । मत्कृते प्रार्थना व्यर्थी मत्तातस्यापि हाऽभवत् ॥२४८॥ दध्यौ प्रसेनजिच्चैवं स्वयं सर्वत्र निस्पृहः । अश्वसेनोपरोधात् तु कर्ताऽसौ मन्मनोरथम् ॥ २४९ ।। सुतामप्येवमाश्वास्य स जगाद विभुं विभो । सहैष्यामि त्वया काशिं द्रष्टव्यो ह्यश्वसेनराट् ॥ २५० ॥ एवमस्त्विति भाषित्वा स प्रसेनजिता सह । सौहार्द कारयित्वा च व्यसृजद् यवनं विभुः ।। २५१ ॥ स्वयं च कृतकार्यत्वात् स कुशस्थलभूभुना । सकन्येनाऽन्वीयमानो ययौ वाराणसी पुरीम् ।। २५२ ।। काशीन्द्रस्तस्य पार्श्वस्य महा नृसुराऽसुरैः। स्तूयमानस्य संतुष्टः प्रवेशोत्सवमातनोत् ।। २५३ ॥ मोहध्वान्तहृतिप्रदीपकलिकाऽऽविर्भावतुल्याः सुधाकुल्या धर्मतरोः शिवोच्चभवने निःश्रेणिदण्डोपमाः । श्रेयःकल्पलताङ्कुरा भवमहाम्भोराशिसेतुश्रियः
श्रीपार्श्वस्य पदद्वयीनखमणिश्रेणिप्रभाः पान्तु वः ॥२५॥ इति श्रीकालिकाचार्यसन्तानीय-श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथ
चरिते महाकाव्येऽष्टसर्गे भावाके श्रीपार्श्वनाथच्यवन-जन्म___जन्माभिषेक-कौमारविजययात्रादिवर्णनो
नाम पञ्चमः सर्गः ॥ ५ ॥
१ रक्षणे। ३५