SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीपार्श्वनाथचरिते यस्याऽऽज्ञाकारिणो देवा नृकीटः कोऽस्मि तस्य ते ?॥२३२ प्रहित्य कृपया दूतः शिक्षितोऽहं त्वया प्रभो ! । किमुत्फालः कदापि स्यान् मृगेन्द्रो मृगशावके ? ॥२३३॥ गुणायाऽविनयोऽप्यासीन्मम त्वदर्शनाद्विभो ! । मया तु प्रसभं तस्य मूलोच्छेदः कृताऽधुना ॥ २३४ ॥ कृतघ्नत्वादिति व्यक्तमालिन्योऽप्यभवं शुचिः। प्रभोऽद्य त्वत्पदोद्योतसत्तीर्थजलमज्जनात् ॥ २३५ ॥ सर्वदैव प्रसन्नोऽसि स्वयं श्रीग्रहणक्षमः ।। इन्द्रैः संसेन्यमानोऽसि स्वयमेवाऽभयप्रदः ॥ २३६ ।। तदेवं सति किं वच्मि तथाऽप्योऽनुगैः प्रभुः । प्रसीदाऽऽदत्स्व मे लक्ष्मी सेवकस्तेऽस्मि रक्ष माम् ॥२३७॥ श्रीपार्थोऽपि जगौ भद्र ! भद्रं तेऽस्तु मतो भवान् । स्वां श्रियं भुङक्ष्व मा भैषीर्नेदृक् कार्य पुनस्त्वया ॥२३८॥ तथेति प्रतिपेदानः सत्कृतः प्रभुणाऽपि सः । पुरमुद्वेष्टयामास यवनो द्राक् कुशस्थलम् ॥ २४९ ॥ ज्ञात्वा प्रसेनजित् सर्वं तन्मान्त्रिपुरुषोत्तमात् । मुदा परिग्रहोन्मुक्तचन्द्राभं पुरमप्यभूत् ॥ २४० ॥ अथ प्रसेनजित् तूर्णमुपादाय प्रभावतीम् । गत्वा नत्वा च वामेयं हृष्टः प्रोचे कृताञ्जलिः ॥ २४१ ॥ दृष्टहष्टाऽद्य मे दृष्टिरभून्नाथ ! त्वदीक्षणात् । त्वदागमनहेतुत्वात् सज्जनो यननोऽप्यभूत् ।। २४२ ॥ भानुनेव त्वया यद्वत् सप्रकाशः कृतो जनः । तथोद्वाहादिमां कन्यां सश्रीकां कुरु पद्मिनीम् ॥ २४३ ।। प्रभावती तदा दध्यौ किन्नरीभ्यः श्रुतः पुरा । यादृशस्ताहगेवाऽयं संवदन्त्यक्षराण्यहो ! ॥ २४४ ॥ खभाग्याऽप्रत्ययाचित्तं शङ्कते तु ममैष यत्. . त्रिलोकीदुर्लभस्तातोपरोधं मन्यते न वा ॥ २४५ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy