________________
षष्ठः सर्गः।
३५५ तदा महेन्द्र ! वस्तावत् पश्यतामेव वाजिना। अपहृत्य कुमारेन्द्रो महाटव्यां प्रवेशितः ॥१०४४॥ द्वितीयेऽपि दिनेऽश्वस्य तथैव बनतो जवात् । मध्याह्नसमयो जज्ञे पान्थानामतिदारुणः ॥१०४५।। क्षुत्-तृश्रमाऽतिरेकेण जिह्वां कृष्ट्वा मुखाद् बहिः । तस्थावूर्ध्वस्थ एवाऽयं श्वासापूर्णगलाकुलः ॥१०४६।। सादिनोत्तीर्य पर्याणं यावदुत्तारितं हयात् । घूर्णित्वा पतितस्तावदसौ पाणैश्च तत्यजे ॥ १०४७ ॥ ततः कुमारो नीरार्थ परिभ्राम्यन्नितस्ततः। . काऽपि नाऽऽप जलं तापादथाऽभूदाकुलो भृशम् ।।१०४८॥ दूरे सप्तच्छदं दृष्ट्वा हृष्टस्तमभिधावितः । कथञ्चित् प्राप्य तस्याऽधः पपात भ्रमितेक्षणः ॥ १०४९।। अथ यक्षेण तत्पुण्यानुभावात् तन्निवासिना। आनीय सलिलं सिक्तः सर्वाङ्गेषु नृपाङ्गजः ।। १०५० ॥ लब्ध्वाऽसौ चेतनां पीत्वा जलं पप्रच्छ को भवान् ? । कुतो वेदमिहाऽऽनिन्ये जलं यक्षोऽप्यथाऽब्रवीत् ।।१०५१॥ यक्षोऽहं निवसाम्यत्र मानसाख्यसरोवरात् । त्वनिमित्तं महाभाग ! समानिन्ये जलं मया ॥१०५२॥ कुमारः प्राह तस्यैव सरसो मन्जनेन चेत् । ... . प्रयाति मम सर्वाङ्गसन्तापो यक्षपुङ्गच ! ॥१०५३॥ पूरयामि तवाऽभीष्टमधुनेति प्रजल्पता। यक्षेणैषोऽञ्जलौ कृत्वा निन्ये सपदि मानसम् ॥१०५४॥ कृतस्नानश्च तत्राऽसौ कुमारः पूर्ववैरिणा । दृष्टोऽसिताख्ययक्षेण युद्धं च समभूत् तयोः ॥१०५५।। अत्रान्तरे महेन्द्रस्तां पप्रच्छ वद खेचरि ! । किं तेन सह यक्षेण स्वामिनो वैरकारणम् ? ॥१०५६॥