SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेसाऽप्यूचे श्रूयतामस्ति श्रीकाञ्चनपुर पुरम् । तत्रासीद् विक्रमयशोनामा नरपतिः पुरा ॥१०५७।। तस्य पञ्चशतान्यन्तःपुरीणां सुतनुश्रियाम् । तत्रेभ्यो नागदत्तोऽभूद् विष्णुश्रीस्तस्य वल्लभा ।। १०५८॥ रूप-लावण्य-सौभाग्यैः सुरस्त्रीभ्योऽपि साऽधिका । कथञ्चिद् ददृशे राज्ञा क्षिप्ता चाऽन्तःपुरे द्रुतम् ॥१०५९।। प्रायः परधन-स्त्रीपु मूढानां हि रतिर्भवेत् । यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ।। १०६०॥ तां विना नागदत्तोऽपि हा ! प्रिये ! कमलानने !। मृणालकोमलभुजे ! रम्भोरु ! मृगलोचने ! ॥ १०६१ ॥ क गताऽसि कथश्चात्मदर्शनं न ददासि मे । प्रलपन्नेवमुन्मत्तीभूतो बभ्राम सर्वतः ? ॥ १०६२ ॥ तदेकासक्तचित्तस्तु नृपः कृत्यपराङ्मुखः । नयत्यगणिताऽश्लोको धन्यंमन्यः स वासरान् ॥१०६३॥ यतःविवेकदीपकस्तावन्नृणां स्फुरति मानसे । ताड्यते चटुलाक्षीणां न यावल्लोचनाञ्चलैः ॥ १०६४ ॥ ईर्ष्यापरिभवार्ताभिः शेषराजीभिरन्यदा । संभूय कार्मणं कृत्वा विष्णुश्रीर्विनिपातिता ॥ १०६५ ॥ ततस्तदवसानेनाऽत्यन्तशोकातुरो नृपः । अश्रुपूर्णाक्षिरुन्मत्तो नागदत्त इवाऽभवत् ।। १०६६ ।। तदङ्गं राज्ञि संस्कर्तुमददानेऽथ मन्त्रीभिः । आलोच्य वञ्चयित्वैनं नीत्वाऽरण्ये समुज्झितम् ॥१०६७॥ अपश्यन्नथ तद् राजा त्यक्तपानाऽशनादिकः । तस्थौ योगीव निश्चेष्टः शून्यं ध्यायन् दिनत्रयम् ॥१०६८॥ १ अश्लोकोऽयशः।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy