SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । अदृष्टे म्रियते नूनमिति निश्चित्य मन्त्रिभिः । नीतोऽरण्ये नृपोऽद्राक्षीद् वीभत्सं तत्कलेवरम् ॥ १०६९ || चलत्कुमि गलत्पूति वायसाकृष्टलोचनम् । दुर्गन्धमुपरिभ्राम्यद्गृधौघं खण्डितं खगैः ।। १०७० ।। ( युग्मम् ) ३५७ तद् दृष्ट्राऽसौ निनिन्दैवं लज्जा शीलं कुलं यशः । त्यक्तानि यत्कृते जीव ! धिग् दशा तस्य कीदृशी ? १०७१ इत्थं वैराग्यमापन्नः सर्वस्वं तृणवत् क्षणात् । नृपस्त्यक्त्वा प्रवव्राज सुधर्माचार्य सन्निधौ । १०७२ः ।। सन्तोऽन्तेऽपि निवर्तन्ते यत् तदालम्ब्य पापतः । मनास्तत्रैव नश्यन्ति मूढा मत्कोटवत् पुनः ॥ १०७३ ॥ शुद्धचारित्रदुग्धेन प्रक्षाल्यात्मपटे मषीम् । पापरूपां विपद्यन्ते तृतीयं कल्पमाप सः ॥ १०७४ ॥ ततश्च्युत्वा रत्नपुरे जिनधर्माभिधोऽभवत् । इभ्यपुत्रो जिनाख्यातद्वादशवतधारकः ।। १०७५ ।। इतश्च नागदत्तोऽपि प्रियाविरहदुःखितः । महार्तध्यानतो मृत्वा भ्रान्त्वा तिर्यक्ष्वनेकशः ।। १०७६ ॥ पुरे सिंहपुरे सोऽभूदनिशर्माऽभिधो द्विजः । कियत्यपि गते काले त्रिदण्डिव्रतमग्रहीत् ॥ १०७७ ॥ . तप्यमानस्तपस्तीव्रं द्विमाक्षपणादि सः । आगाद् रत्नपुरं तत्र नृपोऽस्ति नरवाहनः ॥ १०७८ ।। तेन त्रिदण्डिभक्तत्वाज् ज्ञात्वा तीव्रतपा इति । श्रद्धयाssमन्त्र्य निन्येऽसौ स्वगृहं पारणादिने ।। १०७९ ॥ जिनधर्मोऽपि तत्राऽऽगात् तदानीं दैवयोगतः । तं दृष्ट्रा स मुनिः प्राच्यवैरात् ताम्रेक्षणोऽजनि ॥१०८० ॥ अब्रवीच्च नृपं राजन् ! पृष्ठेऽस्य श्रेष्ठो यदि । न्यस्य पात्रीं ददास्युष्णपायसं पारये ततः ।। १०८१ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy