SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३५८ श्रीपार्श्वनाथचरिते नृपः प्राह महात्माऽयं मान्यों में कोऽपि तन्मुने । अपरोऽस्तु, मुनिः प्राह नान्यथा पारयाम्यहम् ॥१०८२।। ततः तस्यानुरागेण प्रतिपन्नं नृपेण तत् ।। सोऽपि तुष्टमना भोक्तुं तथैवाऽऽरब्धवान् मुनिः॥१०८३॥ श्राद्धोऽपि पूर्वदुष्कर्मफलमेतदुपस्थितम् । मन्वान इति पृष्ठस्थपात्रीदाहं सहत्यलम् ।। १०८४ ॥ भुक्तोर्ध्व पृष्ठतः पात्री त्वग-मांस-रुधिरैः समम् । उत्पपाट ततः श्रेष्ठी धीरः सन् स्वगृहं ययौ ।। १०८५ ।। सन्मान्य क्षमयित्वा च सर्वस्वजन-पूजनान् । पूजां विधाय चैत्येषु महात्मा निर्ययौ पुरात् ।। १०८६ ॥ तुङ्गाद्रिशिखरे गत्वा विहितानशनः क्रमात् । कायोत्सर्गेण तस्थौ स पक्षं पक्षं चतुर्दिशम् ॥ १०८७ ।। पीडां सम्यक् सहन् पृष्ठे खाद्यमानः खगादिभिः । नमस्कारपरो मृत्वा सौधर्मेन्द्रो बभूव सः ॥ १०८८ ॥ त्रिदण्ड्यपि विपन्नस्तेनाऽऽभियोगिककर्मणा । तस्यैव वाहनं जज्ञे गज ऐरावणाऽभिधः ॥ १०८९ ॥ तत ऐरावतश्च्युत्वा भ्रान्तवा तिर्यक्षु नृष्वपि । अज्ञानतपसो यक्षोऽसिताक्षोऽजनि तत्र सः ॥ १०९० ॥ च्युतः शक्रोऽपि सौधर्माद् इस्तिनागपुरेऽभवत् । । चक्री सनत्कुमारोऽयमिति वैरस्य कारणम् ।। १०९१ ॥ तत्रासिताक्षयक्षेण चालयनचलोपलान् । उन्मूलितमहावृक्षः प्रथमं मुमुचेऽनिलः ॥ १०९२ ।। ततो बहुलधूलीभिरन्धकारितमम्बरम् । मुक्ता मुक्ताट्टहासाश्च पिशाचा ज्वलिताननाः ॥ १०९३ ॥ यावत् तथैव न क्षुब्धः कुमारः सोऽमुना ततः। .. मुक्तज्वालास्फुलिङ्गानागपाशैरबध्यत ॥ १०९४ ।। जीर्णरज्जुवदेतेन त्रोटितास्तेऽप्यसौ पुनः । ..
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy