________________
३२४
श्रीपार्श्वनाथचरितेवाणिज्यं किश्चिदारेभे तत्र जातो महर्द्धिकः ॥ ६४२ ॥ चन्द्रः पश्चनमस्कारशुद्धपक्षानुभावतः। वर्धमानकलो जज्ञे सुवृत्तकलितः क्रमात् ।। ६४३ ।। अथो विधिवशात् तस्य त्रयोऽपि सुहृदोऽचिरात् । भानुभॊमश्च कृष्णश्च तत्राऽऽजग्मुः पृथक् पृथक् ॥ ६४४ ॥ चन्द्रस्य मिलिताः सर्वे स्वखोदन्तं न्यवेदयन् । चन्द्रोऽपि निजवृत्तान्तं पुरस्तेषां शशंसिवान् ।। ६४५ ॥ नमस्कारस्य माहात्म्यं श्रुत्वा ते तं शिशिक्षिरे । ततस्तेऽपि शनैर्जाता महर्द्धिभरभासुराः ।। ६४६ ।। चन्द्र-भानू स्वभावेन प्राञ्जलौ सर्ववत्सलौ । किश्चिद् मायाविनौ वन्यौ भेदः साम्येऽपि दृश्यते ॥६४७॥ चत्वारोऽप्यन्यदैकत्र निविश्यालोचयन्त्यदः। ऋद्धिर्जाता बहुः किन्तु किं तया स्वजनैर्विना?॥ ६४८ ॥ सैव लक्ष्मीः प्रशस्येत चमत्कारं करोति या । सज्जनैर्भुज्यतेऽप्याशामाशङ्कां च प्रतन्वती ।। ६४९ ॥ अतः स्खं नगरं याम इति निश्चित्य ते ततः । क्षेमेणाऽम्भोधिमुल्लद्ध्य प्रस्थिताः पदवर्त्मना ॥ ६५० ॥ ऋद्धिसंभारसंपूर्णस्तेषां सार्थः पथि वजन् । एकत्राऽऽवासितो ग्रामे पारेभे भोजनस्थितिम् ॥ ६५१ ॥ तदाऽधोन्यस्तदृक् साधुरेको नेत्रप्रभाऽमृतैः । सिञ्चन्निव भुवं तत्राऽऽययौ मासोपवासिकः ॥ ६५२ ॥ स मुनिस्तपसा शुष्काङ्गोऽपि चन्दनदारुवत् । उज्ज्वलः शीतलश्वासीत् कस्य नाह्लादको जने ? ॥६५३।। तेषां भद्रकभावत्वात् स दृष्टो विमले हृदि । . मुनिः संक्रान्तबिम्बोऽभूजातास्त तेन तन्मयाः ॥ ६५४ ॥ स्वयं भोक्तुं निविष्टत्वात् तस्मै चन्द्रादिभिः समम् । आदिष्टो भक्तदानाय सुन्दरो नाम कर्मकृत् ।। ६५५ ।।