SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ - षष्ठः सर्गः। ३२५ । स तुष्टो हृदये दध्यावहो ! मे सुकृतोदयः।। काऽहं काऽयं मुनिः कैतदेयं कैते च दापकाः ? ॥ ६५६ ॥ यदि वस्तु निजं न स्यात् तदित्थमपि यच्छतः। पात्राय स्यान्महालाभो नृत्य नृत्य ततो मनः ! ६५७।। इति हर्षोल्लसञ्चित्तः सुन्दरो भाविसुन्दरः। अदत्त मुनये दानं निदानं मोक्षसंपदः ।। ६५८ ॥ द्विचत्वारिंशता दोषैरदुष्टं मुनिरप्यदः । प्रतिजग्राह भक्ताद्यं प्राणाधाराय धार्मिकः ॥ ६५९ ॥ चतुर्भिरपि तैर्भोगफलं कर्मार्जितं ततः । सुन्दरेणाऽधिकं तत्तु परिणामविशेषतः ॥ ६६० ॥ क्रमान्जयपुरं प्राप्तं मिलिता बन्धवोऽखिलाः । चतुर्णामपि गेहेऽभून् महान् वर्धापनोत्सवः ॥ ६६१ ॥ चिरमृद्धिसुखं भुक्त्वा प्रान्ते सुन्दरसंयुताः। जाता ज्योतिष्कुमारेषु ते चत्वारोऽपि देवताः ॥ ६६२ ।। चन्द्र-भानू ततश्च्युत्वा महेभ्यतनयावुभौ । अभूतां विश्रुतौ नाम्ना श्रीवर्धन-मनोरमौ ॥ ६६३ ॥ भीम-कृष्णौ पुनश्च्युत्वा पुत्रीत्वेन धनेशितुः । सुन्दरी रुक्मिणी नाम्ना बभूवतुरनुक्रमात् ।। ६६४ ॥ परिणीते च ते ताभ्यामुभाभ्यामपि कन्यके । मिथः प्राच्यभवाऽभ्यासात् प्रतिबन्धो महानभूत् ॥ ६६५॥ च्युत्वा सुन्दरजीवस्तु जज्ञे विश्वपुरे नृपः। विश्वसेनाऽभिधः श्रीभिः स्वयमागत्य यो वृतः ॥ ६६६ ॥ पुरे तत्रान्यदाऽऽयातौ श्रीवर्धन-मनोरमौ । वाणिज्यार्थमथो तत्र राजानमुपतस्थतुः ॥ ६६७ ।। तौ दृष्ट्वा मुदितो राजा दानमुक्तिमकारयत् । प्राच्यस्नेहाच्च तत्रैवाऽस्थापयत् सकुटुम्बकौ ॥ ६६८ ॥ अन्यदा सहितस्ताभ्यां बहिरुद्यानमागतम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy