SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२६ श्रीपार्श्वनाथचरितेययौ राजा मुनि नन्तुं ध्यानस्थं च तमैक्षत ॥ ६६९ ॥ नृपस्तदर्शनोद्भूतप्रभूनानन्दकन्दलः । ध्यानकरगितात्मानं भक्त्या नत्वेदमब्रवीत् ।। ६७० ॥ निस्तन्द्रां योगमुद्रां ते दृष्ट्वा मे मुदितं मनः । ततस्तस्या विधि श्रोतुमिच्छामि शिवदं मुने ! ॥ ६७१ ।। अथ तस्योपरोधेन योग्यं ज्ञात्वा च तं मुनिः । पारयित्वा क्षणं ध्यानं मधुरध्वनिराख्यत ॥ ६७२ ।। साधु पृष्टं महाभाग ! श्रूयतां किश्चिदुच्यते । नृणां येन श्रुतेनाऽपि निष्पकम्पं मनो भवेत् ॥ ६७३ ॥ यमो नियमाऽऽसने च प्राणायामश्चतुर्थकः । प्रत्याहारो धारणा च ध्यानं समाधिरष्टमः ॥ ६७४ ॥ अहिंसा सत्यमस्तेयं ब्रह्माऽकिश्चनता यमाः। नियमाः शौच-सन्तोषौ स्वाध्याय-तपसी अपि ।। ६७५ ॥ देवताराधनं चैव करणं पुनरासनम् । प्राणायामो गतिच्छेदः श्वास-प्रश्वासयोर्मतः ॥ ६७६ ॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः । धारणा तु कचिद् ध्येये चित्तस्य स्थिरबन्धनम् ॥६९७॥ ध्यानं च विषये तस्मिन्नेकपत्ययसन्ततिः । समाधिस्तु तदेवैकमात्राऽभ्यसनरूपकः ॥ ॥ ६७८ ।। अष्टाङ्गो योग इत्येवं तज्ज्ञैराख्यायि यः सदा । अष्टकर्मबलं जेतुं जागर्ति हृदि योगिनाम् ॥ ६७९ ॥ पद्म-वज्रासनादीनामभ्यासेनाऽऽसनं जयेत् । रेचकादिक्रमेणाऽथ करणीयो मरुजयः ॥ ६८० ॥ तजये स्याद् वपुःसौस्थ्यं देहसौख्यं मनः स्थिरम् । मनःस्थैर्ये लगेद् ध्यानं ध्याने च समतासुखम् ।। ६८१ ॥ तत् सौख्यमपि दुःखाय रागद्वेषाच्च यद् भवेत् । तद् भो विहाय तन्मध्यं समताख्यं समाश्रय ॥६८२॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy