________________
षष्ठः सर्गः। ..
३२७ रागः शीतसमो द्वेषो ग्रीष्मतुल्यस्तदन्तरे । स्थितश्चैत्र इवानन्दोत्सवं कस्य करोति न ? ॥ ६८३ ॥ मूक्ष्ममार्गे हि धर्मस्य समताख्ये शिवोपरि । एक एव ततो मा गा विकल्पगहनं वनम् ॥ ६८४ ॥ शर्म धर्मश्च तत ते स्यानिर्विकल्पं मनो यदि । विकल्पो याति साम्येन तदभ्यासं ततः कुरु ॥ ६८५ ॥ भवे पर्यटतो जन्तोः को निजः कोऽथवाऽपरः । ग्रामस्यार्वाक् प्रदेशो यः स एव बनतः परः ॥ ६८६ ॥ विकल्पैरब्धिकल्लोलाऽवगाहनसमैः किमु । साम्यं फलकमादाय तीरं श्रय भवाम्बुधेः ॥ ६८७ ॥ विद्यया तपसा तीर्थयात्रया वा न नितिः । विना तद् मर्मसाम्येन साम्यात् सौस्थ्येऽपि सा भवेत्॥६८८॥ उक्तं चहूयते न तप्यते न दीयते वा न किश्चन । अहो ! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥ ६८९॥ कन्या किल यथा विद्या-तीर्थ-कष्टकतामपि । नासीदासीत् स्थितस्याऽपि तन्मर्माहारदायिनः॥ ६९०॥ तथाहिश्रीपुरे चन्दन श्रेष्ठिपुत्री नन्दा गुणैकभूः । प्रदीपकलिकेवाऽसीत् बालाऽपि कुलमण्डनम् ॥ ६९१ ॥ पाणिग्रहणयोग्याया ग्रामान्तरगतैः समम् । तस्याः पित्रादिभिश्चके संपदानं पृथक् पृथक् ॥ ६९२ ॥ पित्रैकत्र पुरे दत्ता महेभ्यतनुजन्मने । पितृव्येण पुनर्मित्रपुत्रस्याऽन्यत्र पत्तने ॥ ६९३ ॥ स्वपितृनगरे मात्राऽभीष्टसख्याः सुतस्य तु । ददे भ्रात्रा पुरेऽन्यत्र महागुणवते तु सा ॥ ६९४ ॥ सर्वेऽपि वपुरं प्राप्ताः कन्यादानं निजं निजम् ।