________________
तृतीयः सर्गः।
१७७
सुवि वारं सगर्भ च वचः श्रुत्वा शुकादिदम् । , राज्ञी दध्यौ न सामान्यः कोऽप्यसौ ज्ञानवानलम् ॥२८७॥ मच्चित्तस्खलनात् कूटो नृपोऽयमिदमस्य गीः। समाख्यातीति हृष्यन्त्या देव्या निद्रा समागमत् ॥२८८॥ अथ तत्रेक्ष्य निर्जीवं शुकात्मा गृहगोधकम् । विवेश वीक्षितुं राज्याः शीलवत् पालनं गिरः ॥ २८९ ॥ तावद् देवी स्वयं बुद्धा शुकेन्द्रं वीक्ष्य निःस्वनम् । प्रबोधयितुमारब्धा मृदुभिश्चाटुभिः शतैः ।। २९० ॥ वद किं नाद्य मे कीर ! सुधया सिंचसि श्रुती । यो मां बोधितवांस्तं त्वां प्रत्युताहं विबोधये ॥ २९१ ॥ विहाय निद्रामुत्तिष्ठ पठ प्राभातमङ्गलम् । लसज्ज्ञानप्रदीपानां सतां निद्रातमः कुतः ? ॥२९२ ॥ किं नाद्याप्युत्तरं दत्से कथं रुष्टो ममोपरि । आत्मरूपे त्वयि स्वप्नेऽप्यलीकं नैव चिन्तये ॥ २९३ ॥ इत्यादिगदितैर्यावद् वोधितोऽपि न बुध्यते । संभ्रान्ता तावदुत्थाय सा करेणाऽस्पृशच्छुकम् ।। २९४ ॥ तथापि न श्वसित्येष देवी मूर्छा गता ततः । क्षणेन लब्धचैतन्या रुरोद प्रललाप च ॥ २९५ ॥ हा ! तवाकस्मिकं कीर ! दैवकं किमभूदिदम् । दुर्दैव ! वद किं दग्धस्त्वयाऽयं चन्दनोपमः ? ॥ २९६ ॥ दवोऽपि घननीरेण विध्यायति भवान् पुनः । न निवृत्तोऽसि कीरस्य वाक्यामृतशतैरपि ॥ २९७ ॥ हा ! हताऽहं विहङ्गेन्द्र ! त्वद्वाक्याधारजीविता । हा ! मृषावचनाऽभूवं क्षणं मृत्युविलम्बनात् ।। २९८ ॥ इति मृत्युकृतोत्साहा शुकाङ्गे स्नान-लेपनम् । कृत्वाऽन्यदपि तत्कालोचितं सा कर्तुमुद्यता ॥ २९९ ॥ तज् ज्ञात्वा कृत्रिमनृपश्चेटीभ्योऽभवदाकुलः ।
२३