SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७८ श्रीपार्श्वनाथचरितेहाहा! निष्कमलं राज्यं वृथा मे भविताऽखिलम् ॥३०॥ तद् गत्वा बोधयाम्येतां निश्चित्यैवं तथाऽकरोत् । परं सा बुध्यते नैव ततः स पुनरब्रवीत् ॥ ३०१ ॥ किं जीवति शुके देवि ! जीवसीति प्रतिश्रुते ? । एवमित्युदिते भूपो दध्यौ सिद्धं समीहितम् ॥ ३०२ ॥ शुकं जीवयुतं कृत्वा नीत्वाऽन्यत्र विमुच्य च । प्रतिज्ञां पूरयित्वाऽस्याः प्रविक्ष्यामि निजां तनुम् ॥३०३॥ इत्येकान्ते तनुं मुक्त्वा कीरमाविश्य सोऽललत् । नृपोऽपि गृहगोधाङ्गं त्यक्त्वा स्वतनुमाविशत् ।। ३०४ ॥ विक्रान्ताभ्रपटलीमिव तेजस्विनी तनुम् । दधानो विक्रमनृपो लघु देव्यन्तिके ययौ ॥ ३०५ ॥ दर्शनात् तस्य कमलमालेव कमलावती । सद्यो विकाशमापन्ना श्रिया च समलङ्कृता ॥ ३०६ ।। मूर्तिर्जाया च सत्येव राइयो याऽन्यनरागमे । निष्कला सकला चैव सद्यः स्वपतिसङ्गमे ॥ ३०७ ।। दृष्ट्वा पूर्ववदालापं गतिं वेषं निरीक्षणम् । रुदन्ती पादयोः पत्युः सहसोत्थाय साऽलगत् ॥ ३०८ ॥ जगौ च जीवितं स्वामिन्नेक देशान्तरेण ते । बभूव दुःखमपरं तव कूटप्रपञ्चतः ॥ ३०९ ॥ कयं कथान्तरेणाऽहं वराकी विप्रतारिता । देशान्तरकलालाभपरीक्षा मयि कीदृशी ? ॥ ३१० ॥ यदेवमपि नियूदं महिलामात्रया मया । प्रसादस्तदयं सर्वस्तव पादप्रसादजः ॥ ३११॥ अधुना मेऽखिलं तावत् स्वस्वरूपं निरूप्यताम् । नृपः माह तव प्रेयान् कीरोऽसौ कथयिष्यति ॥३१२ ॥ राश्याह देव ! को हेतुर्यदर्थे मृत्युराहतः । स दृष्टोऽप्यधुना बाढमनिष्टो मेऽभवच्छुक: ॥३१३ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy