________________
तृतीयः सर्गः।
नृपः कीरं करे कृत्वा जगाद किमिदं द्विज !। सोऽप्याह यद् गुरु-स्वामि-मित्रद्रोहकृतां भवेत् ॥ ३१४ ॥ त्वं मे स्वामी नरैश्वर्याद् गुरुर्विद्यापदापनात् । मित्रं विश्वासतः सर्व तल्लुप्तं लोपवद् मया ॥ ३१५ ॥ राजा वदति भो विप्र ! किं हीनमिदमुच्यते । मयेव तव साहाय्यात् कृतो विद्यापरिश्रमः ।। ३१६ ॥ स पुनः प्राह साहाय्यं यादृशं विहितं मया । . तत् सर्व वेत्सि देव ! त्वं न्यायसीमामहोदधे ! ॥३१७ ॥ निजगेहतनुभ्रष्टं मित्र-स्वामि-गुरुद्रुहम्। . . द्रष्टुं स्पष्टुं च मां पापं तव नाथ ! न युज्यते ॥ ३१८ ।। सती न कमलातुल्या न त्वया सदृशो महान् । मया समो न पापात्मा तत् त्वं राज्यं चिरं कुरु ॥३१९॥ मां च वामांहिणा स्पृष्ट्वा मुश्च कापि यथा निजम् । कर्म सेवे त्वयैतेन दुष्टशिक्षा कृता भवेत् ॥ ३२० ।। तन्निशम्याऽनुकम्पार्द्रमना विस्मार्य दुष्कृतम् । नृपः प्रोवाच या विद्या ममाऽस्त्येषा तथाप्यहो ! ॥३२१॥ तत् कथं पादसंस्पर्श त्वमर्हसि बजेप्सितम् । परोपकारी धर्मिष्ठः कापि द्रव्येश्वरो भव ॥३२२॥ इति तं विक्रमो मुक्त्वा देव्या कमलया युतः । राज्यं चक्रे भद्रकात्मा धर्मकर्मपरायणः ॥३२३।। इत्येवं विनयादाप्ता विद्या निर्वाहसुन्दरा । अभूत् सैवाविनीतस्य महाऽनर्थविधायिनी ॥३२४॥ इयता विनयः प्रोक्तो विवेकः कथ्यतेऽधुना । यं विना शोभते न श्री रूपं चक्षुर्विना यथा ॥३२५।। यथाद्रिषु गुरुर्मेरुग्रहेषु दिवसाधिपः । चिन्तामणिश्च रत्वेषु विवेकोऽपि गुणेष्विति ॥३२६॥ भोज्ये वचसि दानादौ सद्विवेकानरः पराम् ।