________________
१८०
श्रीपार्श्वनाथचरितेप्रतिष्ठा लभते लोके दिव्यघाटादिवोपलः ॥३२७॥ विवेकेनाऽविवेकेन धर्मो-यैर्विहितः पुरा । तेऽत्र क्रमेण जायन्ते पतयः पत्तयः श्रियः ॥३२८॥ विवेकदीपकालोकसप्रकाशीकृतेऽध्वनि । चरन्तो न स्खलन्त्येव कलिध्वान्तेऽपि कोविदाः ॥३२९॥ विवेको गुरुवत् सर्व कृत्याकृत्यं प्रकाशयेत् । सन्मित्रवदकृत्याच वारयेत् सुमतियथा ॥३३०॥ तथाहि--- श्रीसेनः श्रीपुरेऽस्ति स्म राजा राज्यमहारथम् । यो निर्वाहितवान् पुष्टन्यायधर्मषः सुखम् ।। ३३१ ॥ पुरोधास्तस्य सोमाख्यः सद्गुणकृमिको हितः । कुलोद्योतनदीपाभः पुत्राभावात् स दुःखितः ॥३३२।। अन्यदा तं नृपः प्राह तवेयमनपत्यता। यथा मां बाधते बादं भवन्तं सोम ! नो तथा ॥३३३॥ नियूंढोऽयमियत्कालमावयोरन्वयक्रमः। अतः परं मत्पुत्रस्य कः पुरोधा भविष्यति ? ॥ ३३४ ॥ अवंशपतिते तस्मिन् विश्वासः कीदृशो भवेत् ? । तदेवमपि कस्मात् त्वं निश्चिन्त इव दृश्यसे ॥३३५।। स प्राह चिन्तया देव ! किं परायत्तवस्तुनि ?। . . जीवितं सन्ततिद्रव्यं दैवायत्तमिति त्रयम् ॥३३६॥ उक्तं चआत्मायत्ते गुणाधाने नैर्गुण्यं वचनीयता । दैवायत्ते पुनः कार्ये पुंसः का नाम वाच्यता ? ॥३३७॥ नृपोऽजल्पदुपायोऽस्ति दैवस्याऽप्यनुकूलने । आराधय निजां कृत्वा साहसं कुलदेवताम् ।।३३८।। धर्माय पूज्यते देवो विघ्नशान्त्यै तु देवता । १ निन्दनीयता।