SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। १८१ तत् तस्यास्तामकुर्वत्याः किं वृथा पूजनेन भोः ! ? ॥३३९॥ इति राज्ञार्पितोपायः स देव्या भवनं गतः । शुचिर्भूत्वा पुरस्तस्या दर्भस्रस्तरके स्थितः ॥ ३४० ॥ पुत्रदानप्रसादं मे यदा देवि ! करिष्यसि । तदाहं भोजनं कर्तास्मीत्यभिग्रहमग्रहीत् ।। ३४१ ॥ तृतीयदिवसे देवी क्षुभिता तस्य सन्ततिम् । अपश्यन्ती गता सिद्धयक्षस्यान्तिकमब्रवीत् ॥ ३४२ ।। किं कुर्वे भद्र ! कष्टं मे वर्ततेऽद्य यतो द्विजः । पुत्रं मां याचते नास्ति स त्वस्य ननु तादृशः ॥ ३४३ ॥ ततोऽसौ मरणं कर्ता स्यादपूना जने मम । इति श्रुत्वा जगौ यक्षो मुग्धे ! सुकरमुत्तरम् ॥ ३४४ ॥ तं ब्रूहि यदहो विप्र ! तव पुत्रोऽस्ति किन्त्वसौ । परदाररतश्चौरो द्यूतकारश्च निश्चितम् ।। ३४५ ॥ एषामेकतमो दोषो विश्वाऽविश्वासहेतवे । । दोषत्रयजुषा त्वेष किं सुतेन करिष्यति ? ॥ ३४६ ।। सा प्रहृष्टा गता यक्षोदितमाख्यत् पुरोधसः । सोऽपि प्रष्टुं गतो राज्ञो देव्यादेशं शशंसिवान् ।। ३४७ ।। तद्विमृश्य महादक्षो राजोचे सोम ! याच्यताम् । देवी यदीदृशोऽप्यस्तु पुत्रः किन्तु विवेकवान् ॥ ३४८ ॥ यतः-- एकस्यैव विवेकस्य तेजसा नाशमञ्जसा । यान्ति दोषा महान्तोऽपि सिंहस्येव मतङ्गजाः ॥ ३४९ ॥ शिक्षामादाय तां विप्रो गत्वा देवीमयाचत । तयाऽप्यनुमतं सोऽथ स्वगृहं गन्तुमुद्यतः ।। ३५० ॥ अथ तस्य द्वितीयाऽस्ति पण्यनारी परिग्रहे । साऽपि तावदिनान्यस्थाद् भूस्वापा मुक्तभोजना ।।३५१।। तत्स्वरूपं निवेद्याऽसौ चेम्यानीतो बलादपि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy