SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८२ श्रीपार्श्वनाथचरितेतद्गृहे सोऽपि तत्रैव स्नातभुक्तोऽवसद् निशि ॥ ३५२ ।। प्रभाते स्वगृहं गच्छन् सोमो दध्यौ विषण्णधीः । धिङ् मां सुकुलजां जायामुपेक्ष्याऽस्थितोऽत्र यः॥३५३।। देव्याः प्रसादमासाद्य यदत्रैवावसं निशि । तन्मे कुक्षेत्रजः पुत्रो भावी भाव्यं हि नाऽन्यथा ।।३५४॥ धिङ् भमाऽजातपुत्रस्य पुत्रजन्मन्यपि स्फुटम् । नोत्सवो भविता हष्टलोकः स्वज्ञातिवीक्षितः ।। ३५५ ॥ ज्ञात्वेदं मयि भूपोऽपि विरागं यास्यति ध्रुवम् । तथाप्यस्य सुनाथत्वात् कथनीयं यथातथम् ॥ ३५६ ॥ इत्यागच्छन् नृपेणासौ तादृशो वीक्ष्य जल्पितः । हर्षस्थाने कथं सोम ! विषण्ण इव दृश्यसे ? ॥ ३५७ ।। किं विप्रतारितो देव्या किं व्यलीकं तवाऽथवा ? । देव्यादेशं स्वदोषं च स स्वं निन्दन तमाख्यत ॥ ३५८ ॥ राजोचे कुरु मा खेदमीदृश्येव कुले यतः । तादृशा देवतादिष्टा भवन्ति तव का क्षतिः ? ।। ३५९ ।। परं जन्मादितः कृत्वा प्रकाश्यस्तावदेष न । दोषध्वान्तहरो यावन विवेकरविः स्फुटः ॥ ३६० ॥ इति राज्ञो हितादेशसुधाविध्यातमानसः। गत्वा स्वभवने जायां सुगुप्तां तामकारयत् ॥ ३६१ ॥ समयेऽजनि पुत्रोऽस्य नृपस्याऽऽशु निवेदितः । प्रच्छन्नकृतसंस्कारो व्यवर्धिष्ट क्रमेण च ।। ३६२ ।। अथाऽध्ययनयोग्यं तं ज्ञात्वा शास्त्रविचक्षणः। ' अध्यापयितुमारेभे स्वयमेव पिता सुतम् ॥ ३६३ ॥ तस्य भूमीगृहस्थस्योपरिद्रुफलकासनः । छात्राणां च पुरो बाह्ये शास्त्रमापयत्यसौ ॥ ३६४ ।। निजाङ्गुष्ठे दवरकं बद्ध्वाऽर्पयति मूनवे । संदेहे सति चाल्योऽयमिति सङ्केतपूर्वकम् ॥ ३६५ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy