________________
द्वितीयः सर्गः। तदा चारुण-देविण्योः कर्मोदीर्ण वचस्कृतम् ॥ ४५९ ॥ गतायाः क्रीडनोद्यानं देविण्याः कटकद्वयम् । गाढाविति करौ छित्त्वा दस्युना जगृहे रहः ॥ ४६० ॥ कूजितं वनपालिन्या ततश्चौरानुसारतः । दृष्ट्वा पलायमानं तं धाविता दण्डपाशिकाः॥ ४६१ ॥ क्षीणशक्तिरथो पूर्व दृष्टं जीर्णसुरालयम् । प्रविष्टो यत्र सुप्तोऽस्त्यरुणदेवः सुनिर्भरम् ॥ ४६२ ॥ अयमेवाधुनोपाय इति ध्यात्वा स तस्करः। तत्पार्चे कटको मुक्त्वा शस्त्रीं च शिखरेऽविशत् ॥ ४६३ ॥ उत्थितोऽरुणदेवोऽथ निरीक्ष्य कटकद्वयम् । दत्तं देव्येति संतोषाद् गृहीत्वाऽगोपयत् कटौ ॥४६४ ॥ छुरिकां पुनरादाय किमेतदिति चिन्तयन् । यावदस्त्यरुणस्तावदागता दण्डपाशिकाः ॥ ४६५ ॥ संक्षुब्धः सन् स तैरुक्तो रेऽधुना कुत्र यास्यसि । इत्युक्त्वा ताडयत्स्वेषु पपात कटकद्वयी ॥ ४६६ ।। ततो बद्ध्वार्पितो राज्ञो वृत्तान्तश्च निवेदितः। नृपादेशाच्च शूलायां भिन्नो नीत्वा बहिः स तैः ॥४६७॥ अत्रान्तरे भोज्यपाणिस्तत्रागादीश्वरः पुरात् । अदृष्ट्वाऽरुणदेवं च पप्रच्छारामपालकान् । ४६८ ॥ अहो! एवंविधः कोऽपि दृष्टो देवकुलादितः। गच्छन् कुत्रापि युष्माभिस्तैरूचे कोऽपि नेक्षितः ? ॥४६९॥ किन्त्वेकः कोऽपि चौरोऽत्र धृत्वा व्यापादितोऽधुना । गतश्चेत् कौतुकात् तत्र न जानीमस्तदा वयम् ॥ ४७० ॥ ततो व्याकुलितो यावद् वध्यस्थानं गतो द्रुतम् । अरुणं दारुणावस्थं शूलायां तावदैवत ॥ ४७१ ॥ हा ! श्रेष्ठिपुत्र ! हा! मित्र ! किं तवासीदिति ब्रुवन् । आराटिं भीषणां मुक्त्वा मूर्छितो न्यपतत् क्षितौ ॥४७२॥