SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते सकौतुकोदयं तत्राश्वास्य प्रेक्षार्थकैर्जनैः । आर्य! श्रेष्ठितः कोऽयमिति पृष्टः स्खलन् जगौ ? ॥४७३ ॥ किं कथ्यतेऽधुना हन्त ! न्यवर्तत कथानकम् । असौ कुमारदेवस्य तामलिप्तीनिधेः सुतः । । ४७४ ॥ एतन्नगरवास्तव्यजसादित्य सुतापतिः । यानभङ्गवशादित्थमद्यैवात्र समागतः || ४७५ ॥ इत्याद्यशेषवृत्तान्तं निवेद्यात्मानमीश्वरः । शिलया हन्तुमारब्धो धृतश्च प्रेक्षकैर्जनैः || ४७६ ॥ इमं व्यतिकरं श्रुत्वा जसादित्यो निजाङ्गजाम् । आदाय देविणीमागादरुणं तं तथैक्षत || ४७७ ॥ ततस्तं प्रत्यभिज्ञाय धिक् पापं मामिति ब्रुवन् । मूर्च्छितः सह देविण्याऽऽश्वासितश्च स बन्धुभिः ||४७८ ॥ शलिकान्तः समाकर्ण्याऽरुणदेवं स पूर्जनात् । काष्ठान्ययाचत श्रुत्वा तद् नृपो द्रुतमागतः || ४७९ ॥ अब्रवीच्च जसादित्य ! दैवमत्रापराध्यति । १०८ नाहं तु यन्ममाऽप्येवं सहसाकारिताऽभवत् ।। ४८० ॥ तदाग्रहमिमं मुञ्च हृदि कर्मस्थितिं स्मर । अन्यथा चिन्तितं कार्य कर्मणा क्रियतेऽन्यथा ।। ४८१ ॥ अत्रान्तरे चतुर्ज्ञानी मुनिर्नाम्नाऽमरेश्वरः । ज्ञात्वा तत्राययौ बोधोपकारं बहुदेहिनाम् || ४८२ ॥ तत्प्रभावाच्च सर्वेषां गलिताः शोकशङ्कवः । शान्तो देवोऽर्च्य इत्यस्माज्जाता धर्मश्रुतौ मतिः || ४८३॥ देवैर्गन्धाम्बुसंसिक्तभून्यस्त स्वर्णपङ्कजे । उपविश्य महात्माऽसौ धर्ममाख्यातुमुद्यतः ॥ ४८४ ॥ मुञ्चताsहो ! मोहनिद्रां जाग्रत ज्ञानजागरैः । त्यजत प्राणिघाताद्यं लात क्षान्त्यादिकान् गुणान् ||४८५|| प्रमादमुज्झत द्विष्टं प्रमादादल्पतोऽपि यत् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy