________________
द्वितीयः सर्गः। बध्यते दारुणं कर्म देविन्य-रुणदेववत् ॥ ४८६ ॥ नृपमुख्यैरथो पृष्टं शिष्टं च मुनिनाऽखिलम् । तच्चरित्रं, ततः पर्षद् महासंवेगमागमत् ।। ४८७ ॥ देविन्य-रुणदेवौ तु जातजातिस्मृती मुनिम् । अयाचतामनशनं धर्मध्यानैकमानसौ ॥ ४८८ ॥ मुनिराह महाभागाविदं वां युज्यतेऽधुना । ततो नृपादिसांमत्यात् ताभ्यामनशनं कृतम् ॥ ४८९ ॥ विज्ञप्तं भूभुजा नाथ ! दुष्कृतादियतोऽपि चेत् ।। भवेदेवंविधावस्था मादृशां का गतिस्ततः ? ॥ ४९० ॥ मुनिरूचेऽमुना भूम्ना तिर्यग्-नरकसंभवः। अतः शत्रु-विषा-निभ्यः प्रमादो ह्यधिकः स्मृतः ॥४९१॥ राजाह क उपायः स्याद् दुःखस्यास्य निवारणे ? । मुनिराह प्रमादस्य रोधनं संयमेन यत् ॥ ४९२ ॥ राज्ञाऽभाणि किमेताभ्यां ह्यप्रमादो न सेवितः ? । प्रचुरेण प्रमादेन नियतं दुर्गतिर्भवेत् ॥ ४९३ ।। अप्रमादस्यातिशयात् सर्वदुःखक्षयो ध्रुवम् । किश्चाभ्यामप्रमादेन क्षपितं भूरि कर्म भोः ! ॥४९४॥ शेषः कर्माश एवाऽयं मुक्तो धन्याविमौ ततः । इयानेवानयोः क्लेशः शुभधीः कथमन्यथा ? ॥ ४९५ ॥ प्रतिबुद्धस्ततो राजा जशादित्येश्वरान्वितः। दीक्षां जग्राह चौरोऽपि तज्ज्ञात्वाऽनुतताप सः ॥ ४९६ ॥ आगत्य च सनिर्वेदं निवेद्य निजदुष्कृतम् । अयाचत मुनेः पार्थात् संन्यासं मुनिरप्यदात् ॥ ४९७ ॥ आत्तपञ्चनमस्कारो निन्दित्वात्मानमुच्चकैः । तस्करोऽरुणदेवश्च देविणी च दिवं ययुः॥ ४९९ ॥ तदेवं वचनस्याऽपि हिंस्रस्य फलमीदृशम् । विज्ञायाऽऽक्रोशदानाचं वर्जनीयं प्रयत्नतः ॥ ४९९ ॥