SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते आस्तां वचन कायाभ्यां हिंसा जीवव्यथाकरी | चिन्तिता मनसाऽप्येषा नृणां नरकदायिनी ॥ ५०० ॥ यथा कोऽपि पुरा रङ्क उद्यानवनयात्रया । गते लोके पुरासन्नर्वैभारगिरिसन्निधौ ॥ ५०१ || भिक्षामलभमानः सन्निजदुष्कर्मदोषतः । हृदि चिन्तितवानेवमज्ञानाऽऽहितदुर्मतिः ।। ५०२ ॥ अहो ! कोऽपि न मे भिक्षां भक्ष्यभोज्येषु सत्स्वपि । ददाति, तदिमं सर्वे हरिष्यामीति कोपतः ।। ५०३ ॥ रौद्रध्यानवशं यातो द्रुतमारुह्य पर्वतम् । ११० एकं महोपलं मूलाच्चालयामास निर्दयम् || ५०४ ॥ तेनाधः पतता लोकः समस्तोऽपि प्रनष्टवान् । स पुनश्चूर्णितो मृत्वा द्रमको नरकं गतः ।। ५९५ ॥ आख्यातमित्यहिंसायां द्वितीयेऽपि व्रतेऽधुना । आख्यानं वसुराजस्य कथ्यमानं निशम्यताम् ॥ ५६० ॥ अस्ति शुक्तिमती नाम नगरी नगरीषु या । शुक्तिमत्याख्यया नद्या मुक्तावल्येव राजते ।। ५०७ ॥ अभूत् तस्यां स्वतेजोभिर्ध्वस्तवैरितमोभरः । चूडामणिसमः श्रीमानभिचन्द्रो नरेश्वरः || ५०८ ॥ अजायत सुतस्तस्य वसुनामा महामतिः । बालकालादपि प्रायो यस्य सत्यव्रते रतिः ।। ५०९ ॥ पुरुषेषु नयौदार्यविनयप्रमुखैर्गुणैः । वसुत्वं दधता येन चक्रे साथ वसुन्धरा । ५१० ॥ तत्र क्षीरकदम्बाख्यः सर्वशास्त्रविशारदः । उपाध्यायोsस्ति तस्याऽपि सुतः पर्वतकाभिधः ॥ ५११ ॥ वसुः पर्वतश्चैव तथान्यो नारदस्त्रयः । पार्श्वे क्षीरकदम्बस्य पठन्त्येते दिवानिशम् || ५१२ ॥ द्विरद संकाशे यौवनेऽनर्थकारिणि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy