SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। १११ पुरुषस्याधिरूढस्य न शास्त्रादन्यदकुशम् ॥ ५१३ ॥ भास्वता स्वकरौधेन यद्वदुद्घाटितेऽम्बुजे ।। नासिकाप्यायको गन्धः प्रसरत्येव सर्वतः ॥ ५१४ ॥ तथा शास्त्रेण गुरुणा नृणामुद्बोधिते हृदि । परमानन्दजनकं तत्त्वमुन्मीलति स्वयम् ॥ ५१५॥ 'बुद्ध्येति तानुपाध्यायोऽप्यध्यापयति सादरम् । गुरोर्मात-पितृभ्यां च कोऽन्योऽस्ति भुवने हितः ॥५१६॥ रजन्यामन्यदा तेषां पठतां सौधमूर्धनि । जाग्रत्येव गुरौ निद्रा क्षणं श्रमवशादभूत् ॥ ५१७ ॥ तदा च गगने यान्तौ चारणश्रमणावुभौ । तान् निरूप्य विदित्वैवं परस्वरमवोचताम् ॥ ५१८ ॥ एषामेकतमः स्वर्ग गमिष्यत्यपरौ पुनः । नरकं यास्यतस्तच्चाऽश्रौषीत्क्षीरकदम्बकः ॥ ५१९ ।। तच्छ्रुत्वा सहसा जातविषादम्लानमानसः । अचिन्तयदुपाध्यायो दुःश्रवं धिगिदं वचः ॥ ५२० ॥ मय्यप्यध्यापके शिष्यो नरकं यास्यतो हहा !। न चालीकमिदं येन केनापि ज्ञानिनोदितम् ॥ ५२१ ॥ एभ्यः को यास्यति स्वर्ग नरकं कौ च यास्यतः ? । जिज्ञासुरित्यसौ शिष्यांस्त्रीनप्याऽऽकारयत्समम् ॥ ५२२ ॥ यावत्तूर्ण समप्युषामेकैकं पिष्टकुर्कुटम् । स ऊचेऽमी तत्र वध्या यत्र कोऽपि न पश्यति ॥ ५२३ ।। वसु-पर्वतको तत्र गत्वा शून्यप्रदेशयोः । शुभां गतिमिवात्मीयां जन्नतुः पिष्टकुर्कुटौ ॥ ५२४ ।। महात्मा नारदाख्यस्तु व्रजित्वा नगराद् बहिः । स्थित्वा च विजने देशे दिशः प्रेक्ष्येत्यवर्णयत् ॥ ५२५ ॥ गुरुपादरिदं तावदादिष्टं वत्स ! यत्वया । वध्योऽयं कुर्कुटस्तत्र यत्र कोऽपि न पश्यति ॥ ५२६ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy