SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११२ श्रीपार्श्वनाथचरितेअसौ पश्यत्यहं पश्याम्यमी पश्यन्ति खेचराः। लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ ५२५ ॥ नास्त्येवं स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरुगिरां न वध्यः खलु कुर्कुटः ॥ ५२८ ॥ गुरुपादा दयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतद् नियतमादिशन् ॥ ५२९ ॥ विमृश्यैवमहत्वैवं कुर्कुटुं स समाययौ। कुर्कुटाऽहनने हेतुं गुरोर्व्यज्ञपयञ्च तम् ॥ ५३० ॥ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सखजे । गुरुणा नारदः स्नेहात् साधु साध्विति भाषिणा ॥५३१॥ अभीष्टः सुकृती युक्तं सतां धर्ममयं हि ते । संविभागमिवादातुं तस्य कुर्वन्ति गौरवम् ॥ ५३२ ॥ महतां काऽपि नापेक्षा परकीये स्वकेऽपि वा। यत्रैव गुणमीक्षन्ते तत्त्वतस्तत्र ते रताः ॥५३३ ॥ वसु-पर्वतको पश्चादागत्यैवं शशंसतुः ।। निहतौ कुर्कुटौ तत्र यत्र कोऽपि न पश्यति ॥ ५३४ ॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुर्कुटौ रे ! पापावित्यशपद् गुरुः ? ॥ ५३५ ॥ इत्थं च निर्णयं ज्ञात्वा महोद्वेगाकुलो हृदि । इति दध्यावुपाध्यायो ज्ञातव्यं धिगिदं मम ।। ५३६ ॥ आदर्शो दर्शितोऽन्धस्य मन्त्रितं बधिराग्रतः । अरण्ये रुदितं चक्रे रोपितं कमलं स्थले ॥ ५३७ ॥ वर्षितं चोषरक्षेत्रे एतावन्ति दिनानि यत् । अनयोः पाठनायासो मयाऽकारि निरर्थकः ॥ ५३८ ॥ तच्छूतं यातु पातालं तच्चातुर्य विलीयताम् । ते विशन्तु गुणा वह्नौ येषु सत्स्वप्यधोगतिः ॥ ५३९ ॥ तज्जलं यत् तृषां छिन्यात्तदनं यत्क्षुधापहम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy