________________
श्रीपार्श्वनाथचरिते
वेलायामागतः सर्गो मुक्तं मुद्रेन्धनं ततः । अप्रेक्ष्य जननीं क्षुत्तृपीडया कुपितो भृशम् ॥ ४४६ ॥ जलमानीय चन्द्राऽपि व्यग्रत्वादिभ्यमानुषैः । दीना न केनाप्यकृतसारा स्वगृहमागता || ४४७ ॥ त्वां दृष्ट्रा त्वं कथं पापे ! शूलायां तत्र रोपिता । स्थिता यदियति वेलां सर्ग इत्याह निष्ठुरम् ? ॥ ४४८ ॥ तत् श्रुत्वा साऽपि तापेन सहसोवाच किं करौ । छिन्नौ ते शिक्कादन्नमुत्तार्य बुभुजे न यत् १ । ४४९ ॥ इत्युक्तिप्रत्ययं बद्धमुभाभ्यां कर्म दारुणम् । कालेन सुगुरोर्योगात् श्रावकत्वमवापि च ।। ४५० ॥ प्रवर्धमानसंवेगाद् यतिव्रतमपि क्रमात् । गृहीत्वा विधिनाऽऽराध्य सुरलोकं गतावुभौ ।। ४५१ ॥ ततश्च्युत्वा सर्गजीवस्तामलिप्त्यां धनेशितुः । जातः कुमारदेवस्याsरुणदेवाभिधः सुतः ।। ४५२ ॥ चन्द्राजीवः पुनश्च्युत्वा समभूत् पाटलापुरे । जसादित्यमहेभ्यस्य देविणी नाम पुत्रिका ।। ४५३ ॥ सा दत्ताsरुणदेवस्य किन्त्वनिष्पन्न एव सः । विवाहेऽगाद् वणिज्यायै कटाहे जलवर्त्मना || ४५४ ॥ ततो व्यावर्तमानस्य दैवाद् यानमभज्यत । महेश्वराख्यमित्रेण स तीर्त्वाब्धितटं गतः ॥ ४५५ ॥ ततो गच्छन् क्रमेणासौ पाटलापुरमागतः । ईश्वरेणोदितं मित्र ! श्वशुरस्थानमत्र ते ।। ४५६ ॥ तत्तत्र गम्यते, सोऽपि माह नैवंविधस्य मे । श्वशुरान्तेऽईति गन्तुमीश्वरः पुनरवीत् ।। ४५७ ॥ तत्तिष्ठ बहिरेव त्वं पुरान्तर्याम्यहं पुनः । आनेतुं भोजनं तेनानुज्ञातः स तथाऽकरोत् ।। ४५८ ॥ अरुणस्तु श्रमात्तत्र विश्रान्तो मिलितेऽक्षिणी ।
१०६