________________
द्वितीयः सर्गः। औचित्यमन्यलोकानामपि कृत्वा पितुर्गिरा । भीमो गजेन्द्रमारूढः पश्चादारोप्य मन्त्रिणम् ॥ ४३३॥ समं पित्रा गतः सौधं मङ्गलैः स परश्शतैः । अशेषमङ्गलावासो यतो धर्मः श्रितोऽमुना ॥ ४३४ ॥ भोजनान्तरं पृष्टो भीमस्य मतिसागरः । चरित्रं यद्यथावृत्तमाचख्यौ भूभुजः पुरः॥ ४३५ ॥ बढी राजसुताः पुत्रः स पित्रा परिणायितः । निजराज्येऽभिषिक्तश्च जिनदीक्षाऽऽददे स्वयम् ॥ ४३६ ॥ ततो भीमनरेन्द्रोऽपि जिनधर्मप्रभावकः । प्रान्ते प्राप्तपरिव्रज्यो जगाम परमं पदम् ॥ ४३७ ॥ स्वयं प्राणिवधादेवं विनिवृत्तः परानपि । निवर्त्य परमां सिद्धिमाप लोकद्वयेऽपि सः ॥ ४३८ ॥ वचोऽपि हिंसाविषयं महानर्थविधायकम् । अत्र मातृ-सुतौ चन्द्रा-सर्गाहानौ निदर्शनम् ॥ ४३९ ।। तथाहिअस्त्यत्र भरतक्षेत्रे वर्धनागपुरं पुरम् । सदडो नाम कोऽप्येकस्तत्रासीत् कुलपुत्रकः ॥ ४४० ॥ तस्य चन्द्राभिधा पत्नी सुतः सर्गस्त्रयोऽप्यमी । अभाग्यवशतोऽभुवन् दारिद्यकुलमन्दिरम् ॥ ४४१ ।। विपन्ने सवडे चन्द्रा तुन्दार्थ परवेश्मसु । कुरुते कर्म, सर्गोऽपि वनादानयतीन्धनम् ॥ ४४२ ॥ पूर्णश्रेष्ठिगृहेऽन्येद्युर्जामातरि समागते । जलमानेतुमाहूता चन्द्रा पुत्रे वनं गते ॥ ४४३ ॥ सोऽपि पुत्रार्थमारोप्य भोजनं शिक्यकेऽद्भुतम् । ययौ कटिकया द्वारं पिधायेभ्यगृहं मुदा ॥ ४४४ ॥ चित्रं केऽपि प्रभुत्वेऽपि प्रतिबध्नन्ति नो मनः। परप्रेष्यत्वमप्याप्य बाढं हृष्यन्ति केचन ॥ ४४५ ॥