SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेज्ञानैकसम्पदे रूपातीत ! तस्मै नमोऽस्तु ते ॥ ४१९ ॥ निर्वापयसि संसारमरुस्थलपथस्थितम् । दृष्टोऽप्याकस्मिकाम्भोदसोदरः परमेश्वर ! ॥ ४२० ॥ ध्यातो येन जिनेश ! त्वं विकाशिकमलानन !। तस्य विश्वोत्तमानन्तसौख्यलक्ष्मीनिधे ! प्रभो ! ॥४२१॥ गुणैरेव त्वया देव ! शरच्चन्द्रप्रभासितैः । अन्तर्वैरिगणो वीरधर्ममर्मविदा मुदा ॥ ४२२ ॥ नयद्वयभुजा पीनगात्रकाङ्गा जनैः सुगा। सौम्य ! त्वदागमाख्याऽसौ निश्रेणिः सिद्धिधामनि ॥४२३।। गुप्तकर्मक्रियं भव्य भावदेव मुनिस्तुत ! । क्षीणकर्मक्रियं नाथ ! देहि सर्वज्ञ ! मे पदम् ॥ ४२४ ॥ इति चित्रगुणं चित्रस्तोत्रेण जगतां पतिम् । स्तुत्वा कुमारो देवेभ्यः समहस्तमदापयत् ।। ४२५ ॥ भेरी-शम्बूक-ढक्काभिमृदङ्ग-पटहादिभिः । आतोद्यैर्वाद्यमाननिर्घोष उच्छलितो भृशम् ॥ ७२६ ॥ तमाकर्ण्य निजास्थाने स्थितो राड् हरिवाहनः । पप्रच्छ मन्त्रिणः कोऽयाकस्मिकोऽयं महाध्वनिः ? ॥४२७।। तद् यावच्चिन्तयेद् मन्त्रिजनस्तावद् नराधिपम् । . काननाधिकृतोऽभ्येत्य नरो वर्धापयत्यदः ॥ ४२८ ।। देव ! देववनाहानवनेसुरपरिच्छदः। भीमः समागतस्तत्रारब्धश्चैत्यमहोत्सवः ॥ ४२९ ॥ नृपस्तस्याङ्गसंलग्नं दत्त्वाऽऽभरणमुद्धसन् । प्रतीहारं समादिश्य पुरशोभामकारयत् ॥ ४३० ॥ महा स स्वयं दूरादागतं सुतमभ्यगात् । उल्लसन् वलितं कृष्णपक्षादिन्दुमिवाम्बुधिः ॥ ४३१ ॥ आगच्छन् भूभुजं दृष्ट्रा पथि भीमो विमानतः। अवतीर्य पितुर्मातुश्चरणौ प्रणमन्नतः ॥ ४३२ ।।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy