________________
द्वितीयः सर्गः।
१०३ ततो झगिति सा मुक्त्वा विमानं हसितानना। भीमं नत्वा निविश्याग्रे विज्ञा विज्ञापयत्यदः॥४०६॥ सम्यक्त्वं भद्र ! दत्त्वा मे विन्ध्याचलगुहासदाम् । मुनीनां त्वं तदा पार्थे स्थितोऽहं च गता प्रगे॥ ४०७ ॥ ततो युष्मत्प्रसादेन मया सपरिवारया। वन्दित्वा तान् मुनीन् भक्त्या स्वजन्म सफलीकृतम् ।।४०८॥ तत्र यूयं तु नो दृष्टाः पृष्टाश्च मुनयो न तैः । उत्तरं दत्तमित्यार्त्या प्रयुक्तो मयकाऽवधिः ॥ ४०९ ॥ दृष्टा यूयमिह स्नानं कार्यमाणास्तदुत्सुकाः । चलिताऽस्मि परं किश्चिद् बृहत्कार्याद् विलम्बिता॥४१०॥ सुविमानं विकुाथ यक्षेन्द्रो भीममब्रवीत् । अस्मिन्नारुह्यतां शीघ्रं गन्तव्यं यत् पितुः पुरे ॥ ४११ ॥ अथोत्थाय नृपं हेमरथं संबोध्य राजसः । तं विमानं समारुह्य प्रतस्थे मन्त्रिसंयुतः ॥ ४१२ ॥ देवास्तस्य पुरो गीतं नृत्यं कुञ्जरगर्जितम् । हयहेषां च कुर्वन्तो वल्गन्तश्च प्रतस्थिरे ॥ ४१३ ॥ महता तूर्यनादेन पूर्यमाणे नभोऽङ्गणे । कुमारः पाप कमलपुरस्यासनकाननम् ॥ ४१४ ॥ तत्रस्थे जिनचैत्येऽसौ रक्षो-यक्षादिभिः सह । वन्दित्वा विधिना देवानथ स्तोतुं प्रचक्रमे ॥ ४१५ ॥ मुनीन्द्रहृदयानन्दकन्दकन्दलनाम्बुद ।। विकल्पकल्पनापेतं वीतरागत्वमेव मे ॥४१६ ॥ पुण्यभाजितयाऽऽत्मीये जिन ! ध्यायन्ति ये हृदि । ध्यातारोऽपि परं ध्येया भुवनस्यापि ते मताः ॥ ४१७ ॥ तैस्तैर्भुवनविख्यातैश्चरितैरिन्दुसुन्दरैः । जिन ! ध्वस्ततमस्तोम ! त्वमेव परमं पदम् ॥४१८॥ सत्पथप्रतिपन्धित्वान्यवधीदेव ! यः पुरा ।