________________
१०२
श्रीपार्श्वनाथचरितेसा विंशतिभुजा प्राप्ता काली कापालिकान्विता ॥३९२॥ कुमारमभिवन्द्यासावुपविष्टा तदन्तिके। ....उवाच नृप-लोकानां तन्वतां भय-विस्मयम् ॥ ३९३ ॥ अहो ! भीम ! तदा तेऽत्राऽऽनीयमानस्य हस्तिना । मयेत्यवधिना ज्ञातं कुमारे यदसौ हितः ।। ३९४ ॥ अथ तत्र तथैवाऽस्थामहं स्थानेऽधुना पुनः । तव माता पिता पौरलोकश्चातीवदुःखितः ॥ ३९५ ॥ रुदन निरन्तरं सौम्य ! स्मारं स्मारं गुणांस्तव । किञ्चित्कार्यवशात्तत्र गतया बोधिता मया ॥ ३९६ ॥ विहिता च पुरस्तेषां प्रतिज्ञा यदिह ध्रुवम् । भीमो दिनद्वयस्यान्तरानेतव्यो मया ननु ॥ ३९७ ॥ कथितं च यथा भीमकुमारेण बहुर्जनः। धर्मेऽस्थापि, तथा भूयान् मार्यमाणोऽपि रक्षितः ॥३९८॥ अस्ति हेमपुरे सार्ध मतिसागरमन्त्रिणा। कुमारः कुशली तन्मा हर्षस्थाने विषद्यताम् ॥ ३९९ ॥ इति श्रुत्वोत्सुकीभूय भीमो यावत् प्रतिष्ठते । । भेरी-पटह-भम्भानां तावदुच्छलितो रवः ॥ ४०० ॥ ततोऽनेकविमानानां विमाने मध्यगे स्थिता । तारहाराञ्चितोरस्का कुण्डलोल्लसितानना ॥ ४०१॥ गगने देवता दृष्टा तेजःप्रसरभासुरा । ततः किमिदमित्याख्यद् राक्षसः सहसोत्थितः ॥ ४०२ ॥ यक्षोऽपि गर्जितं कुर्वन् करे धृत्वोरुमुद्गरम् । उत्तस्थौ कालिकाऽकर्षत् कराला कर्तरी करे ॥ ४०३ ॥ असंभ्रान्तं कुमारस्तु यावत्तिष्ठति संमुखः । जय नन्देति जल्पन्तस्तावद् देवाः समाययुः ॥ ४०४ ॥ आख्यान्ति च कुमारस्य पुरः सरभसा इव । यक्षिण्याः कमलाख्यायाः समागमनमुच्चकैः ॥ ४०५॥