SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः।। यक्ष-रक्षो-नृपादीनां सम्यक्त्वं विधिना व्यधात् ॥३७९।। भीमेन तु कुपाखण्डिसंसर्गात् शुद्धिरर्थिता। तस्य सा मुनिना दत्ता तुष्टाः सर्वेऽपि तेऽभवन् ॥ ३८०॥ अथ मोहरिपुं नत्वा राक्षसेन्द्रादिभिः सह । कुमारो नृपतेर्हेमरथस्य भवनं ययौ ।। ३८१ ॥ श्रीमान् हेमरथोऽप्येनं सामन्ता-ऽमात्यसंयुतः । प्रणिपत्य कुमारेन्द्रं कृतज्ञात्मा व्यजिज्ञपत् ।। ३८२ ॥ देव ! यज्जीव्यते यच्च भुज्यन्ते राज्यसंपदः। : यदेष पुरलोकवाऽशनपानमनोहरः ।। ३८३ ॥ यच्च दुर्लभसम्पच्च रत्नलाभोऽयमद्भुतः। कुमार ! जगतांसार ! माहात्म्यं तत्तवाऽखिलम् ॥ ३८४॥ तदेष भवदादेशकारी नित्यं जनस्त्वया । प्रयो यथोचित कार्येऽनुगृहीतो यथा भवेत् ॥ ३८५ ॥ कुमारः प्राह भो राजन् ! कस्य केन कृतं भवेत् ? । जन्म मृत्युः सुखं दुःखं सर्व स्यात् स्वस्वकर्मतः ।। ३८६॥ व्यापारस्त्वेष युष्माकं सर्वेषां कुलजन्मनाम् । प्रमादो नैव कर्तव्यो जिनधर्मे सुदुर्लभे ॥ ३८७ ।। साधर्मिकेषु वात्सल्यं जिनधर्मप्रभावना । तथा निरपराधानां जीवानां वधवर्जनम् ॥ ३८८ ॥ अन्येष्वपि यथाशक्यं निवृत्तिः पापकर्मसु । इदं कार्य सदा येन नैव दुःखं पुनर्भवेत् ॥ ३८९ ॥ तैरभाणि कुमारेन्द्र ! दिनानीह कियन्त्यपि । स्थीयतां जिनधर्मे स्याद् यथाऽस्माकं प्रवीणता ॥ ३९० ॥ इति श्रुत्वा पुनदत्ते कुमारो यावदुत्तरम् । तावदुड्डामरो व्योम्न जातो डमरकध्वनिः ॥३९१॥ संभ्रान्तनृप-लोकानां पश्यतामेव च क्षणात् । । मुनिमित्यर्थः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy