________________
श्रीपार्श्वनाथचरितेयेनाशु शान्तिखड्गेन क्रोधशत्रुर्निपातितः ।। ३६६ ॥ रसो लवणतुल्यो न न विज्ञानसमः सुहृत् । धर्मतुल्यो निधिर्नास्ति न क्रोधसदृशो रिपुः ॥ ३६७ ॥ क्रोधधर्माभिभूतस्य केनापि सह संहतिः । सुखायते न जीवस्य तज्जे योऽसौ महाग्रहः ॥ ३६८ ॥ इत्यादिमुनिवाक्येन बुद्धः सर्वगिलोऽवदत् । अकृत्याचरणान्नाथ ! निवृत्तोऽद्य प्रभृत्यहम् ॥ ३६९ ॥ कुमारस्यानुभावेन कोपः पुरजने मया । निर्जितस्त्वत्प्रभावेणाऽधुना हेमरथे पुनः ॥ ३७० ॥ मुनिराहोदितः क्रोधविपाकस्त्वत्कृते मया । अन्यथा मोहभेदेषु मिथ्यात्वमति भीषणम् ॥ ३७१ ॥ एवंवाचि मुनौ गर्जस्तत्रायातो महागजः । क्षुभिता परिषत् तस्य दर्शने सहसाऽभवत् ।। २७२ ॥ भीमो धारयितुं तां तु. सान्त्वयामास तं गजम् । सोऽपि शान्तमनाः साधु ववन्दे त्रिःप्रदक्षिणम् ॥३७३॥ संहत्य हस्तिरूपं च प्रत्यक्षो यक्ष एव सः। चलकुण्डलभूषाढ्यो बभूव कृतविस्मयः ॥ ३७४ ।। सोऽभाणि मुनिना किं भोः ! प्रति पुत्रं निजं भवान् । अनुसृत्यागतो हेमरथं भूत्वा करीश्वरः ॥ ३७५ ॥ अयं पूर्वमिहानीतः खपौत्रं रक्षितुं त्वया। भीमः साम्प्रतमेतं तु खं पुरं नेतुमिच्छसि ॥ ३७६ ॥ यक्षेण भणितं नाथ ! सत्यमेवं यतो मम। एष हेमरथो नप्ता बभूवान् प्राच्यजन्मनि ॥३७७ ॥ किञ्च, मयाङ्गीकृत्य सम्यक्त्वं कुसंसर्गेण दृषितम् । तेनाहं व्यन्तरो जातस्तदाऽऽरोपय मे पुनः॥ ३७८ ॥ नरेन्द्रादिभिरप्येवं प्रार्थिते मुनिपुंगवः। ..... .