________________
द्वतीयः सर्गः
१५१ राजमार्गसमान्योभिः शनैर्याति शिवं गृही ॥ १०२७ ॥ स्थूलसूक्ष्मविभेदेन सर्वथा पालितानि तु । स्युरेतान्येव हि महाव्रतानि यतिनामिह ।। १०२८ ।। अमीभिः शीघ्रमासन्नमार्गतुल्यैर्यतिव्रजेत् । सिद्धिं तत्र यथाशक्ति यतितव्यं ततो बुधैः ॥ १०२९ ॥ इति तस्य मुने चोऽबुध्यन्त बहवो जनाः। नियमाभिग्रहं देशविरतिं च प्रपेदिरे ॥ १०३० ॥ राजा किरणवेगस्तु विरक्तात्मा सुसात्विकः । देहाथै विमुखीभूय परमार्थमना अभूत् ॥ १०३१ ॥ अज्ञानपटले ध्वस्ते गुरुणा शास्त्रशस्त्रतः । निजं राज्यं प्रधानेन व्याप्तमात्मा प्रपश्यति ।। १०३२ ॥ तत्तद्धर्मकथाऽर्थांश्च हृदये स विभावयन् । क्षणमेकं महानन्दाज्जीवन्मुक्त इवाऽभवत् ॥ १०३३ ॥
(युग्मम् ) माया-शोक-भय-क्रोध-लोभ-मोह-मदाऽन्विताः। ये वाञ्छन्ति कथामर्थे तामसास्ते नराधमाः ॥ १०३४ ।। ये रागग्रस्तमनसो विवेकविकला नराः । कथामिच्छन्ति कामस्य राजसास्ते विमध्यमाः ॥१०३५ ।। ये लोकद्वयसापेक्षाः किश्चित्सत्त्वयुता नराः। कथामिच्छन्ति संकीर्णा ज्ञेयास्ते वरमध्यमाः॥ १०३६ ॥ मोक्षकाकतानेन चेतसाभिलपन्ति ये । शुद्धां धर्मकथामेकां सात्त्विकास्ते नरोत्तमाः ।। १०३७ ॥ तथातमोवशादनैश्वर्याऽज्ञानाऽधर्मकलिक्रुधः। रजोवशादवैराग्यं सत्त्वाद्धर्मे मतिः स्थिरा ॥ १०३८ ॥ उत्थाय प्राञ्जलिश्चैवमुवाच खचराधिपः । बाढं तत्त्वोपदेशेनाऽनुगृह्येऽहं त्वया मुने ! ॥ १०३९ ॥