SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५० श्रीपार्श्वनाथचरिते ततश्च्युत्वा विदेहाख्यक्षेत्रे सुकुलसम्पदम् । प्राप्य काले तपः कृत्वा मोक्षसौख्यं समेष्यति ॥ १०१४ ॥ फलं परिग्रहस्यैवं ग्रहे मोक्षे च वर्णितम् । दोषरूपं गुणमयं तद् द्वयं हृदि धार्यताम् ।। १०९५ ॥ आस्तां बाह्यगतोऽयं यत् क्लेशहेतुः परिग्रहः । अस्यातिलौल्यताध्यानादप्यनर्थः प्रजायते ।। १०१६ ॥ यथा काटिकः कोऽपि भिक्षासक्तुभृतं घटम् । विमुच्य निजपादान्ते शून्यदेवकुलेऽस्वपीत् ।। १०१७ ॥ तत्र जाग्रदिदं दध्यानिमान् विक्रय सक्नुकान् | यन्मूल्येन ग्रहीष्येऽहमजां सापत्यया तया ।। १०९८ ॥ धेनुं धेन्वा च महिषीं तयाऽपि वरवाजिनीम् । तस्याः किशोर कैर्दिव्यैर्वहु द्रव्यं भविष्यति ।। १०१९ ॥ तेनाथ कारयिष्यामि सौधमुचं मनोहरम् । सचित्रशालिकालिन्दमत्तवारणजालकम् ।। १०२० il तत्र शय्यासनाद्यं च संस्थाप्य सदुपस्करम् । मेलयित्वा परीवारं निमन्त्र्य स्वजनं जनम् ।। १०२१ ।। सुतामुत्तमविप्रस्य परिणेष्यामि सुन्दरीम् । सर्वलक्षणसंपूर्णस्तस्याश्च भविता सुतः ।। १०२२ ॥ बहुद्रव्यागमे जाते कृते वर्धापनोत्सवे । मनोरथशतैः सार्धं वृद्धिं यास्यति स क्रमात् ।। १०२३ ॥ अन्यदा बहिरायातः सुतं दृष्ट्वा गृहाङ्गणे । रुदन्तं कुपितो भार्यामाहनिष्येऽहमंत्रिणा ।। १०२४ ॥ इत्यावेशगतो दृष्ट्वा साक्षात्पादप्रहारतः । घटं भग्नं गतान् सक्तून् शुशोच स भृशं वटुः ।। १०२५॥ विवेकिभिरिति ज्ञात्वा परिग्रहनियन्त्रणम् । कार्य येन लघुर्जीवस्तरत्येव भवोदधिम् ।। १०२६ ॥ एवमुक्तानि पञ्चाऽप्यणुव्रतानि निदर्शनैः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy