SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ३९५ धत्ते मरुबकः कुन्द-मचकुन्दादि चाऽर्हति ॥ १९९ ॥ एकतः शिशिरो यत्र करणी-शतपत्रिकाः। श्रव्यभ्रमरझङ्काराः सौभाग्यं दधतेऽद्भुतम् ॥ २००॥ तत्राऽसौ कुसुमामोदैर्दाधिकाऽम्भोऽवगाहनैः। सत्फलप्राशनैः प्रीतो गमयामास वासरान् ॥ २०१॥ प्रायो वारितवामत्वाजनस्य दिवसेऽन्यदा । पुष्पं निषिद्धवृक्षस्य जिघ्रति स्म स राजसः ।। २०२॥ अथैष सहसादेव गरीयान् रासभोऽजनि । भूत्कुर्वन्नीक्षितः पक्षायातेन खचरेण च ॥ २०३ ॥ बहु निर्भय॑ सोऽन्यस्याऽऽघ्रापितः कुसुमं तरोः । भूयो मर्त्यत्वमासाद्य क्षमयामास खेचरम् ॥ २०४॥ अतीव महदाश्चर्य किमेतदिति शंस मे। कृत्यं चादिश तेनेति प्रेरितः खेचरोऽब्रवीत् ॥ २०५ ॥ विद्यया खरमानब्याऽऽवासितौ कारणादिमौ । मया वृक्षौ पुनश्चात्र भवता पञ्च वासरान् ॥२०६॥ स्थातव्यमिति संभाष्य खेचरः पुनरप्यगात् । बरसेनस्तु तवृक्षपुष्पे द्वे अपि सोऽग्रहीत् ॥ २०७॥ पञ्चमे च दिनेऽभ्येत्य नीतो विद्याधरेण सः। काश्चनाख्यं पुरं तत्र तथैव विलसत्यलम् ॥ २०८॥ अक्का च तं पुनर्वीक्ष्य विस्मिता चकिता भृशम् । जानु-कूपरयोः पट्टान बद्ध्वा तस्याऽन्तिकं ययौ ॥२०९॥ स गाढाऽमर्षयुक्तोऽपि विहिताकारसंवरः । जगाद किमिदं मातः ! सा रुदतीदमब्रवीत् ॥२१०॥ त्वं ज्ञास्यसि कथं वत्स ! त्वनिमित्तमिदं मया । सर्वमासादितं किं वा सर्व भव्यं तवाऽऽगमात् ? ॥२१॥ स्वरूपं कथ्यते किन्तु कामस्य भवने यदा । पूजां कर्तुं प्रविष्टोऽसि तदा विद्याधरो बहिः ॥ २१२ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy