________________
३९६
श्री पार्श्वनाथचरिते
कोsपि दुष्टः समागत्य गृहीत्वा तत्र पादुके । प्रस्थितोऽहं च तस्याशु विलग्ना निविडग्रहम् ॥ २१३|| दैवादत्राऽऽगतेनाऽहं तेनोल्लाल्य प्रपातिता । अङ्गोपाङ्गानि भग्नानि पश्य कस्येह कथ्यते ।। २१४ ॥ इत्युक्त्वा गृहमानीतः स गृहीत्वा तया भुजे । पृष्टश्च ते कुतो वित्तं कथं चात्र समागमः ? ।। २१५ ।। तत्राssराद्धो मया कामस्तेन तोषाद् धनं बहु | दत्त्वाऽऽनीतोऽहमत्रेति तेनोक्ते सा पुनर्जगौ ॥ २१६ ॥ तेनाsन्यदपि ते दत्तं विशिष्टं वस्तु किञ्चन । स ऊचे दत्तमाश्चर्यकारकं दिव्यमौषधम् ।। २१७ ॥ येनाऽऽघातेन सद्यः स्यात् सुदृद्धस्याऽपि यौवनम् | अथोत्सुकमनाः साऽभूत् वार्तयाऽपि तया भृशम् ॥२१८॥ आख्यच्च वत्स ! यद्येवं तन्नवं कुरु मे वपुः । यतस्ते किमु कोऽप्यस्ति गौरव्यो भुवि मां विना १ ॥ २१९ ॥ कुमारोऽभिदधे सर्व करिष्ये सुन्दरं यतः । युष्मनिमित्तमेवेदं मयाऽऽनीतमिहौषधम् ॥ २२० ॥ आनीय लकुटं कन्यामथासौ कुसुमं दधौ ।
तस्या नासाग्रतः सा च रासभी सहसाऽभवत् ।। २२१ ।। कन्यामारोप्य तत्पृष्ठे चटितो लकुटं करे । धृत्वा तां कुट्टयंस्तेन पुरमध्येन निर्ययौ ॥ २२२ ॥ सुन्दरं कृतमेतेन यदस्या अतिलोभजम् । दर्शित फलमित्युक्त्वा मगधा स्वगृहे स्थिता ।। २२३ ॥ शेषस्तु गणिकावर्गः पूत्कुर्वन् नृपमन्दिरे । गत्वा न्यवेदयन्नाथ ! विप्लवो वर्तते महान् ॥ २२४ ॥ यदद्य धूर्तेनैकेन कुतोऽप्यौषधयोगतः । अस्मत्कुटुम्बवृद्धा स्त्री सहसा रासभी कृता ।। २२५ ॥ राज्ञाऽपि हसितं पूर्व वेश्या कस्य न हास्यभू: ? ।