SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३९४ श्रीपार्श्वनाथचरितेअन्यथा चिन्तितं कार्य दैवतो जायतेऽन्यथा ॥ १८६ ॥ भ्रमन्तमिति तं गच्छन्नुपर्येको नभश्वरः । विलोक्य निकटीभूय सदयः पृष्टवानिदम् ॥ १८७॥ कस्त्वं भोः ! कथमत्राऽऽगाः कुमारोऽपि यथातथम् ? । आचख्यौ खचरोऽप्येनं धीरयामास दुःखितम् ॥१८८।। यावदायामि गत्वाऽग्रे मासाधू तावदत्र भोः !। स्थातव्यं ते ततः स्थानं नेष्यामि त्वां समीहितम् ॥१८९॥ देवतां पूजयेरस्यायतनस्य च पृष्ठतः । अस्ति सर्वर्तुकोद्यानं क्रीडार्थ निर्मितं सुरैः ॥ १९०॥ तत्र गच्छेविनोदाथै किन्तु चैत्यपुरस्तरू । तिष्ठतो यौ तदासन्नमपि गम्यं त्वया नहि ॥ १९१ ॥ प्रतिपन्नं कुमारेण मोदकादि च शम्बलम् । दत्त्वा विद्याधरोऽप्यस्मै जगामाकाशमण्डलीम् ।।१९२।। अर्चन् कामं कुमारस्तु कौतुकाद् द्रष्टुमन्यदा । तदुद्यानं गतस्तावत् तत्रैकत्र प्रवर्तते ॥ १९३॥ वसन्तसमयश्चूतमञ्जरीपुञ्जपिञ्जरः । कोकिलाकण्ठनिर्यातपञ्चमोद्गारबन्धुरः ॥ १९४ ॥ प्रफुल्लमल्लिकामोदमेदुरः स्मितचम्पकः। उद्भिद्यमानकिसलो विकसनवमालिकः ॥ १९५॥ (विशेषकम्) एकतो जयति ग्रीष्मः पाटला-बकुलाश्चितः। जनिताऽम्भोऽवगाहेच्छदीर्घिकासुभगीकृतः १९६॥ एकतः केकिकेकाट्यो विकसज्जातियूथिकः । कदम्बकेतकोद्भेदसुन्दरः प्राडागमः ॥ १९७ ॥ एकतः कमलोल्लासी स्वस्थीकृतसरोवरः। रम्यहंसरवः सप्तच्छदोन्मेषी शरत्क्षणः ॥ १९८ ।। हेमन्त ऋतुरेकत्र यत्र पत्रेऽपि सौरभम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy