SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ३९३ वृद्धयाऽथ स्वयं पृष्टो व्याजहार नृपाङ्गजः ।। अप्रकाश्यमिदं किन्तु कथ्यतेऽम्ब ! तवाग्रतः ॥ १७३ ॥ विद्ययाऽधिष्ठितं दिव्यमस्ति मे पादुकाद्वयम् । तदारूढः खमुत्पत्य वाञ्छितार्थ समानये ॥ १७४ ॥ पापा श्रुत्वेति सा दध्यौ तावनाऽद्यापि किश्चन । यावच्चटति नो हस्ते ममेदं पादुकाद्वयम् ॥ १७५ ॥ अन्येार्मायया मन्दीभूय सा जीर्णमञ्चके । पतिता कुरुते शूलपीडितेवाऽतिकूजितम् ॥ १७६ ॥ पृष्टा वृद्धा कुमारेण मान्यहेतुमुवाच सा । तव किं कथ्यते वत्स ! निजाङ्गेनैव सह्यते ॥ १७७ ॥ मया हि कथिते दुःखे स्वच्छप्रकृतिवत् तथा । तवाऽपि प्रतिबिम्ब्येत मौनमेव ततो वरम् ॥ १७८ ॥ निर्बन्धेन पुनः पृष्टाऽनिच्छन्तीव जगाद सा । श्रूयतां तर्हि हे ! वत्स ! परदुःखेन दुःखिता ॥ १७९ ॥ तदा त्वयि गते दुःखादौपयाचितकं मया । विदधे कामदेवस्य वार्धिमध्यगतौकसः ॥ १८० ॥ दुष्करं तच्च तेनादौ तवाग्रे न प्रकाशितम् ।। क्षिपामि जलधौ पापामिति संचिन्त्य सोऽवदत् ॥१८१॥ नाहि मे दुष्करं शीघ्रं चल्यतामिति तद्गिरा । सद्यः सज्जतरीभूता साधु साध्विति भाषिणी ॥ १८२॥ स्कन्धमारोप्य तां हृष्टः पादयोः क्षिप्तपादुकः । उत्पत्य सहसाऽम्भोधिमध्यदेवकुलेऽपतत् ॥ १८३ ॥ अथोचे कुट्टिनी वत्स ! त्वमादौ काममर्चय । इत्यसौ पादुके मुक्त्वा बहिर्मध्ये प्रविष्टवान् ॥ १८४ ॥ गृहीत्वा तत् तु सा शीघ्रं स्वस्थानं कुट्टिनी ययौ । वरसेनोऽपि तज् ज्ञात्वा दुःखित्तो हृयचिन्तयत् ॥ १८५॥ धृर्तोऽपि वश्चितोऽस्म्येष करोमि किमु सम्प्रति ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy