________________
२९६
श्रीपार्श्वनाथचस्तेि
उभौ द्वारे नरौ देव ! तिष्ठतो दर्शनोत्सुकौ ।। २८३ ॥ आदेशादेत्य तौ तत्र लेखं मुमुचतुः पुरः । वयं राजा तमुद्वेष्ट्य वाचयामास तद्यथा ॥२८४ ॥ स्वस्ति मागधभूमीन्द्रं श्रीजयन्तं महानृपम् । गङ्गोपान्तभुवः स्वाम्ये नियुक्तः सन्निदेशकृत् ॥ २८५ ।। कुरुदेवः सपञ्चाङ्गं नत्वा विज्ञपयत्यदः । देवपादाम्बुजद्वन्दं स्मृत्वा नः कुशलं सदा ॥ २८६ ॥ किन्तु सीमालभूपालः सेवालो देशविप्लवम् । करोत्युपहतग्रामः प्रमाणं देव एव तत् ॥ २८७ ॥ वाचयित्वेति भूपालः स्फुरत्कोपारुणेक्षणः । उवाच भटसामन्ताः ! सन्नद्धा भवत द्रुतम् ।। २८८ ॥ अरे ! पश्यत सुप्तस्य शिरःकण्डूयनं हरेः। सेवालो बालवद् मूढः कथं कर्तुमुपस्थितः ? ॥ २८९ ॥ विज्ञप्तोऽथ कुमाराभ्यां नृपो यदेव ! कीदृशः । संरम्भो राजहंसस्य तव सेवालमात्रके ॥ २९० ॥ आदेशं देहि तदर्पमनल्पमपि तत्क्षणात् । यथा हन्मः प्रयासो हि सेवके सति कः प्रभोः ? ॥२९१॥ तन्निशम्य दृशं राजाऽमात्ये चिक्षेप सोऽवदत् । साधूक्तं राजपुत्राभ्यां कोऽन्यो वेत्तीति जल्पितम् ॥२९२॥ ततो ज्येष्ठसुतो राज्ञाऽऽदिष्टः प्रत्यर्थिनिग्रहे | अमर्षाचन्द्रसेनस्तु सभातो गन्तुमुद्यतः ॥ २९३ ।। सञ्जातेऽथ सभाक्षोभे नृपेण कथमप्यसौ । निवर्त्य भणितो वत्स ! किमेवं कुपितो भवान् ? ॥२९४॥ ज्येष्ठे सति कनिष्ठस्योत्थापनं नैव युज्यते । सन्मानमपि नेच्छन्ति विगतक्रममुत्तमाः ।। २९५ ॥ कियदेतत् पितुस्तुल्यरूपे ज्येष्ठसहोदरे । सति राज्यमपीच्छन्ति दीयमानं न वंशजाः ॥ २९६ ॥