SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः . २९७ इत्थं प्रज्ञापितो राज्ञा यदाऽसौ नोपशाम्यति । मन्त्रिभिर्भणितश्चन्द्रसेनः सामगिरा तदा ॥ २९७ ।। किं राजपुत्र ! दक्षोऽपि मन्यसे न पितुर्वचः ? । मैवं दुर्विनयीत्युक्तिपङ्किलं कुरु जीवितम् ॥ २९८ ॥ इत्यादिवचनैर्मार्ग चन्द्रसेनः प्रपन्नवान् । विजयोऽप्यभिसेवालं प्रतस्थे सैन्यदुर्धरः ॥ २९९ ॥ सीमासन्धिं स्वदेशस्य गत्वा तद्देशवर्तिनः । स सामन्तान् समाहूय दूतात् सेवालमुक्तवान् ।। ३०० ॥ अयथावलमारम्भो निदानं क्षयसम्पदः । परिभाव्य तदात्मानं यद् युक्तं तत् कुरुष्व भोः ! ॥३०१॥ . सेवालोऽप्यवदद् युद्धभीरवो नीतिमाश्रिताः । मत्तेभकुम्भनिर्भेदे हरेः को दर्शयेनयम् ? ।। ३०२ ।। युद्धसज्जो भव क्षिप्रं यथा बलविनिर्णयम् । वक्ष्यतो में भुजावेव किं वाचां फल्गुवलिगतैः ? ।। ३०३॥ इत्यमर्षवशात् सैन्यद्वयेऽपि मिलिते तयोः । सङ्ग्रामोऽजनि निःस्वानध्वानाहूतसुरासुरः ॥ ३०४ ॥ भवितव्यवशाद् भग्नं कुमारस्याखिलं बलम् । कथश्चिन्मन्त्रिभियुद्धात् कुमारोऽपि निवर्तितः ॥३०५|| तत् श्रुत्वा विजयं राजाऽऽनाय्य गन्तुमनाः स्वयम् । विज्ञप्तश्चन्द्रसेनेन तात ! मां प्रेषयाऽधुना ॥ ३०६ ॥ मन्त्रिभिः कथितं देव ! प्रागप्येष महाहठात् । प्रतिषिद्धस्ततः सम्प्रत्यत्रादेशः खलूचितः ।। ३०७ ॥ तत् प्रपद्य नृपेणाऽसौ स विशेषबलान्वितः । प्रहितश्चन्द्रसेनोऽपि ययौ नित्यप्रयाणकैः ॥ ३०८ ॥ स्थित्वा सेवालभूपस्य सीमभूमि कुमारराट् । सामाग्रुपायैः संसेव्य युद्धं कृत्वा तमग्रहीत् ।। ३०९ ॥ सेवालं सह सप्ताङ्गश्रियाऽऽदाय नृपाङ्गजः। .
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy