________________
४४६
श्रीपार्श्वनाथचरितेपुरं तत्रैक्षि वाणिज्याऽऽगतेन श्वशुरेण सः ॥ २१ ॥ तेन नीतो गृहं स्नातभुक्तोऽसौ सर्वमाख्यत । स्थापितः श्वशुरेणाऽस्थात् कियत् तत्रैव सागरः ॥ २२ ॥ तद् यानमपि तत्राऽऽगानिर्यामा रोधिता नृपात् । रत्नान्यादाय च पुनर्मोचिताः सागरेण ते ॥ २३ ॥ विशेषादर्जितश्रीकः स तत्रायातबन्धुषु । सत्कारादर्थिदानाच्च चकार सफलं धनम् ॥ २४ ॥ रत्नबिम्बचिकीः सोऽथ धर्मार्थी धर्मतीथिकान् । को देवो मुक्तिदायीत्यपृच्छत् तेऽन्योऽन्यमूचिरे १ ॥ २५॥ ततोऽस्याऽऽख्यत कोऽप्याप्तः सदनमधिवास्य भोः ।। कृताऽष्टमो ध्याय देवीं त्वदिष्टं काऽपि वक्ष्यति ॥२६॥ तथैव सागरश्चक्रे देवतैका ततोऽर्हतः । सुवर्णवर्णा प्रतिमा पुरो मुक्वेत्यभाषत ॥ २७ ॥ देवोऽयं तात्त्विको भद्र ! स्वरूपं त्वस्य साधवः । वदन्तीति गदित्वाऽसौ देवताऽगाद् यथागतम् ॥ २८ ॥ सोऽपि साध्वन्तिके गत्वा प्रदर्य प्रतिमामिमाम् । कोऽयं देवः प्रतिष्ठा स्यात् कथं चाऽस्येति पृष्टवान् ॥२९॥ साधवोऽपि जिनाऽऽख्यातं धर्ममुक्त्वेदमूचिरे । पार्श्वनाथपभुः पुण्ड्रदेशेऽस्ति ननु पृच्छ तम् ॥ ३०॥ श्रावकत्वं प्रपद्य श्रीपार्थ चाऽभ्येत्य सागरः। प्रणम्य च तदपाक्षीत् स्वाम्यप्य«द्गुणान् जगौ ॥ ३१॥ जिनार्ची स्थापनां चाऽख्यत् सागरोऽपि यथाविधि । अर्हद्विम्बमिति प्रीतः प्रतिष्ठाप्य वपूपुजत् ॥ ३२ ॥ संविनः सागरोऽन्येयुः प्रवबाजाऽन्तिके प्रभोः। नाथोऽपि सपरीवारो विजहार ततोऽन्यतः ॥ ३३ ॥ अथोऽभूवन प्रभोः शिष्याश्चत्वारः शुद्धवंशजाः । १ चिकीः कर्तुमिच्छुः ।