________________
अष्टमः सर्गः ।
४४५
कौमुद्या हि शशी भाति विद्युताऽब्दो गृही स्त्रिया ॥ ८ ॥ सागरो वाचयित्वैनं लिखित्वा च दृढाशयः । प्रजिघाय प्रति श्लोकं साऽपि चैवमवाचयत् ॥ ९ ॥ स्त्री नदीवत् स्वभावेन चपला नीचगामिनी । उद्वृत्ता च जडात्माऽसौ पक्षद्वयविनाशिनी ॥ १० ॥ दध्यौ च यत् स्मरत्येष स्त्रीदोषं प्राच्यजन्मजम् । ततः प्रेषीत् पुनः श्लोकं सोऽप्येवमवाचयत् ॥ ११ ॥ एकस्या दूषणे सर्वा तज्जातिर्नैव दुष्यति । अमावास्येव रात्रित्वात् त्याज्येन्दोः पूर्णिमाऽपि किम् ११२ ॥ इति तस्याः प्रबोधेन वैदग्ध्येन च रञ्जितः । विवाहं सागरचक्रे भोगांव बुभुजे मुदा ॥ १३॥ इभ्यः सागरदत्तोऽथ व्यवहर्तुं जलाध्वना । प्रचक्रमे सप्तवारान् यानं चाऽभज्यताऽम्बुधौ ॥ १४ ॥ आगतः सन्नऽपुण्योऽयमिति लौकैः स हस्यते । दध्यौ च धिक् कथं दैवं विरुद्धं मयि शत्रुवत् १ ।। १५ ।। इति किंकृत्यतामूढोऽनिशं भ्राम्यन्नितस्ततः । सोऽन्यदा कूपिकातोऽम्भः कर्षन्तं कश्चिदैक्षत ॥ १६ ॥ सप्तवारान् जलं नाऽऽगादागाद् वारेऽष्टमे पुनः । तद् दृष्ट्वा सोऽस्मरद् मूलमनिर्वेदः श्रियो ध्रुवम् ॥ १७ ॥
यतः
दैवोऽपि शङ्कते तेभ्यः कृत्वा विघ्नांश्च खिद्यते । विरस्खलितोत्साहाः प्रारब्धं न त्यजन्ति ये ॥ १८ ॥ ध्यात्वैवं शकुनं मत्वा स चचालाऽधिसिंहलम् । पोतेन रनद्वीपं च प्राप वातवशादसौ ॥ १९ ॥ तत्र रत्नानि संगृह्य प्रतस्थे स्वपुरीं प्रति । रनलुब्धैश्च नियमैः स क्षिप्तो निशि वारिधौ ॥ २० ॥ दैवाच्च फलकं पाप्य तटेऽगात् पाटलापथम् ।