________________
अष्टमः सर्गः।
४४७ शिवः सुन्दर-सोमौ च जयश्चेत्यभिधानतः॥ ३४ ॥ चिराऽऽचीर्णव्रता भूरिश्रुताः किन्तु परीषहै। जिताः सन्तो जिनेन्द्रं ते प्रणम्येदं व्यजिज्ञपन् ॥ ३५ ॥ सिद्धिरस्मिन् भवेऽस्माकं भविता भगवन् ! न वा। प्रभुर्जगाद चरमदेहाः सेत्स्यथ सम्पति ॥३६॥ ततस्तैश्चिन्तितं तावद् यतित्वे कष्टमन्वहम् । गृहिणोऽप्याधि-बाधाभिः सदैवाऽतीवदुःखिताः ॥३७॥ हुं ज्ञातं बौद्धतीर्थेऽस्ति ध्रुवं सौख्यं मनीषितम् । यतो बुद्धो जिनः स्वीययतीनामिदमादिशत् ॥ ३८ ॥ मनोझं भोजनं भुक्त्वा मनोज्ञशयना-ऽऽसनः। मनोज्ञे भवने तिष्ठन् मनोज्ञं ध्यायति व्रती ॥ ३९ ॥ तथामृद्वी शय्या प्रगे पेया भक्तं मध्ये परेऽहनि । पानकं शर्करा द्राक्षा नक्तमन्ते पुनः शिवम् ॥ ४०॥ ततस्तत्रैव गत्वाऽतिवाहयामः सुखं दिनान् । अवश्यंभाविनि शिवे किं वृथा कष्टकल्पना ॥४१॥ इति निर्णीय ते तस्थुर्गत्वा सुगतदर्शने । तेषां कालेन चाऽऽसन्नमोक्षत्वादित्यभून्मनः ॥ ४२ ॥ अहो ! विश्वत्रयाऽऽधारं पार्श्वनाथं गुरुं गुरुम् । प्राप्याऽपि भ्रंशितोऽस्माभिर्धिगात्मा शिथिलैरिति ॥४३॥ सच्चारित्रजलेऽस्माभिः स्नात्वा मातङ्गवत् कथम् । कुसंसर्गरजस्यात्मा लोठितो हन्त ! सम्पति ॥ ४४ ॥ प्रमादनिद्रावैवश्याजिनधर्मसुधाघटम् । अस्माकं क्षिपतां पादैः का गतिर्भविता हहा ! १ ॥४५॥ अनन्यशरणानां नः सर्वथा शरणं भवान् । प्रसद्याऽऽलम्बनं देहि पार्श्वनाथपभोऽधुना ॥ ४६॥ १ मनोऽभिलषितम् ।