SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। ततः प्रस्थातुमारेभे युगबाहुः, पिता गुरुः । ज्येष्ठो भ्राता प्रभुश्चानुल्लद्ध्याज्ञा इति चिन्तयन् ॥८१२॥ ततः पापधिया राज्ञाऽवगणय्याऽयशोभयम् । हतः स्कन्धेऽसिना भ्राता मूर्छन् भुवि पपात च ॥८१३ ॥ अहो ! अक्षत्रमक्षत्रमित्थं मदनरेखया । कूजितं धाविताश्चाशु खड्गोयतकरा नराः ।। ८१४ ॥ किमेतदिति जल्पन्तः प्रोक्ता मणिरथेन भोः !। मा बिभीत प्रमादेन करात् खड्गो ममाऽपतत् ॥ ८१५ ॥ ततो यथास्थितं ज्ञात्वा नरैर्मणिरथो बलात् । पुरं नीतो द्रुतं चन्द्रयशसस्तनिवेदितम् ।। ८१६ ।। सोऽपि हाहारवं कुर्वन् वैद्यानादाय जम्मिवान् । उद्यानं स्वपितुर्यत्नाद् व्रणकर्माद्यकारयत् ॥ ८१७ ॥ क्षणेनाऽस्य स्थिता वाचा नेत्रयुग्मं निमीलितम् । अङ्गं बभूव निश्चेष्टं पाण्डुरं रक्तनिर्गमात् ॥ ८१८ ॥ ज्ञात्वा मदनरेखाऽथ भर्तुः प्राणान्तिकां दशाम् । तस्य कर्णान्तिके स्थित्वा जगादेति मृदुस्वरम् ।। ८१९ ।। अहो ! महानुभाव ! त्वमधुनाऽवहितो भव । इयं सा धीर ! वेला ते सुभटत्वस्य सम्पति ॥ ८२० ॥ खेदं मनसि मा कार्मिनागपि तवैव यत् । निजकर्मपरीणामोऽपराध्यति न चाऽपरः ।। ८२१ ॥ . यत उच्यतेयद् येन विहितं कर्म भवेऽन्यस्मिनिहाऽपि वा। वेदितव्यं हि तत्तेन निमित्तं हि परो भवेत् ॥ ८२२ ॥ अतोऽधिसह तत् सम्यग् यदि देक्ष्यधुना परम् । अथाऽपि तस्य नो किश्चित् परलोकस्तु हार्यते ॥ ८२३ ॥ गृहाण धर्मपाथेयं कायेन मनसा गिरा। यत् कृतं दुष्कृतं किश्चित् तत् सर्वं गई सम्प्रति ८२४ ॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy