SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते यश्व मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । 1 तं क्षमस्व तस्मै च क्षमस्व त्वमपि स्फुटम् || ८२५ ॥ तिर्यक्त्वे सति तिर्यञ्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः । ।। ८२६ ॥ ये त्वया स्थापिता दुःखे सर्वास्तान् क्षमयाऽधुना । : क्षाम्यस्व त्वमपि तेषां मैत्रीभावमुपागतः ।। ८२७ ॥ जीवितं यौवनं लक्ष्मी रूपं प्रियसमागमः । चलं सर्वमिदं वात्यानर्तिताऽन्धितरङ्गवत् ।। ८२८ ॥ व्याधि- जन्म-जरा-मृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म शरणं कोऽपि नाऽपरः ।। ८२९ ।। सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि १ ॥ ८३० ॥ एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको दुःखान्यपि स एव हि ।। ८३१ ॥ अन्यद् वपुरिदं यावदन्यद् धान्य-धनादिकम् । वन्धवोऽन्ये च जीवोऽन्यो वृथा मुह्यति बालिशः ||८३२ ॥ वसा रुधिर-मांसा-स्थि-यकृद् - विण्मूत्रपूरिते । पुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधीः १ ।। ८३३॥ अवक्रयाssत्तवेश्मेव मोक्तव्यमचिरादपि । ३३८ ' लालितं पालितं वाऽपि विनश्वरमिदं वपुः || ८३४ ॥ धीरेण कातरेणाऽपि मर्तव्यं खलु देहिना । तन् म्रियेत तथा धीमान्न म्रियेत यथा पुनः ॥ ८३५ ॥ अर्हतः शरणं सिद्धान् शरणं शरणं मुनीन् । उदीरितं केवलिभिर्धर्मं शरणमाश्रय || ८३६ ।। जिनधर्मो मम माता गुरुस्ततोऽथ सोदराः । साधवः साधर्मिकाश्च बन्धवस्त्विति चिन्तय ॥ ८३७ ॥ १ भाटकगृहीतगृहवत् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy