SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। .. ३३९ जीवघाता-ऽनृता-ऽदत्त-मैथुना-रम्भवनम् । त्रिविधं त्रिविधेनाऽपि प्रतिपद्यस्व भावतः ॥ ८३८ ॥ अष्टादशानां त्वं पापस्थानकानां प्रतिक्रमम् ।। कुरुष्वाऽनुसर स्वान्ते परमेष्ठिनमस्क्रियाम् ।। ८३९ ॥ ऋषभादीस्तीर्थकरान्नमस्य निखिलानपि । भरतै-रावत-विदेहाहतोऽपि नमस्कुरु ।। ८४० ॥ तीर्थकृद्भयो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः ॥ ८४१ ॥ सिद्धेभ्यश्च नमत्कारो भगवद्भयो विधीयताम् । कर्कंधोऽदाहि यैानाग्निना भवसहस्रजम् ।। ८४२ ॥ आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमस्कुरु । यैर्धार्यते प्रवचनं भवच्छेदसदोद्यतैः ।। ८४३ ॥ श्रुतं बिभ्रति ये सर्व शिष्येभ्यो व्याहरन्ति च । तेभ्यो नम महात्मभ्य उपाध्यायेभ्य उच्चकैः ८४४ शीलव्रतसनाथेभ्यः साधुभ्यश्व नमस्कुरु । क्षमामण्डलगाः सिद्धिविद्यां संसाधयन्ति ये ॥ ८४५ ॥ इत्थं पश्चनमस्कारसमं यज्जीवितं व्रजेत् । न याति यद्यसौ मोक्ष ध्रुवं वैमानिको भवेत् ॥ ८४६ ॥ सावधं योगमुपधि बाह्यं चाऽभ्यन्तरं तथा । यावज्जीवं त्रिविधेन त्रिविध व्युत्सूजाऽधुना ।। ८४७ ॥ चतुर्विधाहारमपि यावज्जीवं परित्यज । उच्छासे चरमे देहमंपि व्युत्सृज सत्तम ! ।। ८४८ ।। धन-स्वजन-गेहादौ ममत्वं मुश्च कोविद !। सर्व विघटते प्रान्ते धर्म एकस्तु निश्चलः॥ ८४९ ॥ दुष्कर्मगर्हणां जन्तुक्षामणां भावनामथ । . चतुःशरणं च नमस्कारश्चाऽनशनं तथा ॥ ८५० ॥ १. चित्ते । २ प्रणम। ३ क्षमा शान्तिरेव मण्डलं तद्गच्छन्तीति।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy