SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३३६ श्रीपार्श्वनाथचरितेस्पर्शादिविषयैरेवं क्रमादेकेन्द्रिया अपि । क्रियन्ते तत्र का वार्ता पश्चेन्द्रियविमोहने ? ॥ ७९९ ॥ वर्णोज्ज्वलेऽप्यगन्धत्वात् कर्णिकारे न रेमिरे । भृङ्गा रूपेण किं छेका रज्यन्ते ह्यान्तरैर्गुणैः ? ॥ ८०० ॥ भृशं कुसुमिता यत्र पुन्नागमिव माल्लिका । पाटला-काञ्चनाराश्च मुचकुन्दोऽपि नार्हति ॥ ८०१ ॥ एला-लवङ्ग-ककोल-द्राक्षा-खजूरिकादयः । कदली-लवलीमुख्या वृक्षा यत्राधिकश्रियः ॥ ८०२ ॥ यश्च स्वयमपि स्मेरस्मरोन्मत्त इव ध्रुवम् । हसतीवोज्ज्वलैः पुष्पैः कूजतीव पिकस्वरैः ॥ ८०३ ॥ गायतीवाऽलिझङ्कारैर्नृत्यतीवाऽग्रपल्लवैः । नमतीव द्रुशाखाभिः पठतीव शुकारवैः ।। ८०४ ॥ तस्मिन् वसन्ते सत्येवं युगबाहुः प्रियायुतः । ययौ क्रीडार्थमुद्यानं पश्यन् नागरचर्चरीः ॥ ८०५ ॥ जलक्रीडान्दोलनाद्यैः खाद्यपानाऽशनादिभिः । व्यग्रस्य युवराजस्य दिनं क्षण इवाऽभवत् ॥ ८०६ ॥ रात्रौ तत्रैव कदलीगृहे सुष्वाप निर्वृतः । परिवारस्तु कुत्रापि कोऽप्यगात् प्रतनुः स्थितः ॥८०७॥ अथो माणिरथो दध्यौ यदिष्टस्य क्षणोऽधुना। युगबाहुर्यतः स्वल्पपरिवारो वनं निशा ।। ८०८ ॥ ततः खड्गकरो गत्वा वनं पप्रच्छ यामिकान् । कुत्रास्ते युगबाहुर्भोः ! तैरुक्तं कदलीगृहे ? ॥८०९॥ वने मद्भातरं कोऽपि शत्रुः परिभविष्यति । इत्यधृत्याऽहमायात इत्यूचानोऽत्र सोऽविशत् ॥ ८१० ॥ ससंभ्रमं समुत्तस्थौ युगबाहुः कृतानतिः। राज्ञाऽभाणि पुरं याम एहि वासोऽत्र नोचितः ॥ ८११ ॥ । चर्चरी हर्षक्रीडा।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy