________________
. षष्ठः सर्गः।
३३५
यतःजीवघातादलीकोक्तात् परद्रव्यापहारतः । परस्त्रीकामनेनापि व्रजन्ति नरकं नराः ॥ ७८६ ।। तद् महाराज ! संतोषं कुरु मुश्च कदाग्रहम् । भोगतृष्णा हि भोगाद् न याति प्रत्युत वर्धते ॥ ७८७ ॥ इत्यादि गदितं तस्या दूती राजे न्यवेदयत् । अनिवृत्तस्तथाप्येष विशेषोपप्लुतोऽभवत् ।। ७८८ ॥ नोपदेशजलैः शाम्यत्यग्नितैलकृशानुवत् । विवेककालिकेनैव शाम्यति स्मरपावकः ॥ ७८९ ॥ स दध्यौ निस्सपो नैषा युगबाहौ हि जीवति । अन्यमिच्छति तद् हत्वा तं गृह्णामि बलादिमाम् ॥७९०॥ इति निश्चित्य स भ्रातुर्लघोश्छिद्राणि वीक्षते । विवेकबन्धुमुक्तानां काममोहविडम्बना ॥ ७९१ ॥ अन्यदा चन्द्रमाः स्वमे दृष्टो मदनरेखया । भर्ने शिष्टश्च सोऽप्याख्यचन्द्राभसुतसम्भवम् ।। ७९२ ॥ तस्या गर्भानुभावेन तृतीये मासि दोहदः । जज्ञे यदि जिनेन्द्राणां करोमि विविधार्चनम् ॥ ७९३ ॥ अर्हतां च कथां नित्यं शृणामीति यथेप्सितम् । संपूर्णदोहदा गर्भ सुखेनैवोद्वहत्यसौ ॥ ७९४ ॥ अथ मल्लीरदश्चूतमञ्जरीकेसरो वने । पलाशपुष्पनखरो वसन्तहरिरागतः ॥ ७९५ ॥ पुष्प्यन्ति तरुणीश्लिष्टा यस्मिन् कुरुवकद्रुमाः । विकाशं यान्त्यशोकास्तु वधूपादप्रहारतः ॥ ७९६ ॥ मृगाक्षीसीधुगण्डूषैः पुष्यान्त बकुला अपि । चम्पकास्तु प्रफुल्लन्ति सुगन्धजलदोहदैः ।। ७९७ ॥ सुभ्रूकटाक्षिताः सद्यस्तिलका विकसन्त्यलम् । श्रुत्वा च पश्चमोद्गारं पुष्यन्ति विरहद्रुमाः ॥ ७९८ ।।