________________
सप्तमः सर्गः ।
मुनीन्द्रोऽपि विशिष्टेनाऽवधिना प्राग्भवं तयोः । ज्ञात्वा तथैव चाख्याय विशेषादिदमब्रवीत् ॥ २५२ ॥ रोपितो यस्त्वया राजन् ! साधुदानमहातरुः । तस्य पुष्पमिदं राज्यं भविताऽतः परं फलम् ॥ २५३ ॥ वरसेनः कपर्दानां पञ्चकैः पञ्चभिः पुनः । क्रीत्वा पुष्पाणि यत् पूजां जिनस्य कृतवान् पुरा ।। २५४ ॥ तत्प्रभावेन संपन्ना लब्धिः पञ्चशतादिका | भोगाश्च विपुला दिव्यरूपादिगुणशालिनः ॥ २५५ ॥ निर्वाहे पुनरत्यन्ताऽनन्तसौख्यविधायिनी । निश्चिता भविता सिद्धिर्युवयोरुभयोरपि ।। २५६ ॥ देवत्व - मनुजत्वेन सुभोगान् भवपञ्चकम् । यावद् भुक्त्वा भवे षष्ठे विदेहे पूर्वदिस्थिते ।। २५७ ॥ उत्पद्य प्राज्यसाम्राज्य सुखं निर्वाह्य निस्तुषम् । तपः कृत्वा च पर्यन्ते युवां सिद्धिं समेष्यथः ॥ २५८ ॥ इति श्रुत्वा मुनेर्वाक्यं बहुलोकः प्रबुद्धवान् | पृष्ट्वा भूयोऽपि तौ जैनधर्मे स्वं चक्रतुर्मुदा ।। २५९ ॥ ततो वाचंयमं नत्वा गत्वा च निजमन्दिरे । सद्धर्मरथधौरेयावभूतां भ्रातरावुभौ ।। २६० ।। कारयित्वा महीं नव्यजिनमन्दिरमण्डिताम् । रथयात्रोत्सवं देवपूजां नवनवर्द्धिभिः ।। २६१ ॥ साधूनां प्रणतिं तेषु प्रतिकूलनिवारणम् । प्रतिग्रामपुरं दानशालां दीनादिहेतवे ।। २६२ ।। धार्मिकाणां च वात्सल्यं लोकं धर्मप्रवर्तितम् । नित्यं विदधतोरेवं निर्व्यूढं जीवितं तयोः ।। २६३ ॥ पर्यन्ते व्रतमादाय ब्रह्मलोकं गतौ ततः । पूर्वाख्यातक्रमात् सिद्धौ विदेहे तावुभावपि ।। २६४ ॥ आख्यातं वरसेनस्य पुष्पार्चाविषयं गतम् ।
३९९