________________
- द्वितीयः सर्गः। यावत् किंकृत्यतामूढो निविष्टोऽस्ति नृपः प्रगे। . तावत्तत्र समायातः श्रीसारः श्रेष्ठिपुङ्गवः ॥ ७७६ ॥
(विशेषकम् ) खवाटकमनुष्याणां तप्तिं कुर्वस्तमैक्षत ।। ऊचे चाय कथं भद्र ! सचिन्त इव लक्ष्यसे ? ॥ ७७७ ।। लज्जाशोकभराक्रान्तः स यावन्नोत्तरं ददौ । तावज् ज्ञात्वा यथावृत्तमाख्यायि प्रातिवेश्मिकैः ॥७७८ ॥ श्रेष्ठयुवाच महाभाग ! कर्तव्या नाऽधृतिस्त्वया । भोजनाच्छादनाद्यं ते करिष्येऽहमतः परम् ॥ ७७९ ॥ मयाऽत्र कारिते चैत्ये त्रिकालं देवमर्चय । पुत्रौ च वाटिकापुष्पाण्यवचित्योपनेष्यतः ।। ७८० ।। प्रतिपद्य तथा कर्तुमारेभे ससुतो नृपः। पटहं वादयेद् दैवो यथा नृत्येत् तथा कृती ॥ ७८१ ॥ अनभिज्ञोऽप्यसौ दक्षस्तथाऽभूत्तत्र कर्मणि । श्रीसारस्य यथा बाढं रञ्जयामास मानसम् ।। ७८२ ॥ यथा लक्ष्म्या विदग्धत्वं विभ्रमं यौवनश्रिया । प्रेष्यभावं तथा जीवः शिक्ष्यते दुरवस्थया ॥ ७८३ ॥ अपरेार्गतः श्रेष्ठी यावद्वाटी निरीक्षितुम् । तावत्तदेकदेशस्थौ बद्धलक्ष्यौ च पक्षिषु ।। ७८४ ।। धनुष्किकाशरव्यग्रकरावाखेटचापलम् । कुर्वन्तौ सहसाऽद्राक्षीदुभावपि कुमारको ।। ७८५ ॥
(युग्मम्) पापकर्मेक्षणाज्जातकोपाटोपारुणेक्षणः । तौ भृशं ताडयामास बभञ्ज च धनुःशरान् ॥ ७८६ ॥ बहिः कृत्वा च गत्वा च बभाषे तत्पितुः पुरः। क्षणमन्यत्र न स्थेयं त्वया यस्पेशशौ सुतौ ॥ ७८७ ॥ साक्षेपमिति कृत्वाऽस्मिन् निज धाम गते नृपः।
।
.